________________
विशेषा.
बृहद्वृत्तिः ।
॥२१॥
स मानसिकः, इत्येवं तनुयोग एवैक उपाधिभेदात् त्रिधा विभक्त इतिः एतावन्मात्रभेदेन त्रयोऽप्यमी योगा व्यवहियन्ते । परमार्थतस्तु एक एव सर्वत्र कायिको योग इति ॥ ३५९ ।। तथाच प्रमाणयन्ति
तणुजोगो च्चिय मण-वइजोगा काएण दव्वगहणाओ। आणापाणे व्व, न चे, तओ वि जोगंतरं होज्जा ॥ ३६० ॥ तनुयोग एव मनो-चाग्योगौ- तदन्तर्गतावेवैतावित्यर्थः, इयं प्रतिज्ञा कायेनैव तद्रव्यग्रहणादिति हेतुः, प्राणा-पानवदिति दृष्टान्तः यथा कायेन द्रव्यग्रहणात् प्राणा-ऽपानव्यापारः कायिकयोगाद् न भिद्यते, एवं मनो-वाग्योगावपीति भावः । न चेदेवं-न चेत् । त्वया प्राणा-पानव्यापारस्तनुयोगतया-ऽभ्युपगम्यते, तर्हि तकोऽपि सोऽपि प्राणा-ऽपानव्यापारो योगान्तरं स्यात्, ततो योगचतुष्टयप्रसङ्गः, अनिष्टं चैतत्, तस्मात् कायिकयोग एवाऽयमिति ॥ ३६० ।। अत्र परः पाह
तुल्ले तणुजोगत्ते कीस व जोगंतरं तओ न कओ । मण-वइजोगा व कया, भण्णइ ववहारसिद्धत्थं ॥३६॥
ननु त्वदुक्तयुक्त्यैव सर्वेषां तुल्ये तनुयोगत्वे मनो-वाग्योगवत् किमिति तकोऽसौ प्राणा-पानव्यापारः कायिकयोगाद् योगान्तरं न कृतः, किमिति चतुर्थो योग न कृतः ? इत्यर्थः । अथ नैवं क्रियते, तर्हि तुल्येऽपि तनुयोगत्वे मनो-वाग्योगौ काययोगाव किमिति पृथक् कृतौ ?। तस्मात् तनुयोगत्वस्य सर्वत्र तुल्यत्वादेक एव काययोगः क्रियताम् , उपाधिभेदेन तु चत्वारो वा योगाः क्रियन्ताम् । अन्यथा पक्षपातमात्रमेव स्यात्, न युक्तिः, इति भावः ॥ अत्रोत्तरमाह- 'भण्णईत्यादि' भण्यतेत्रोत्तरम् । किं तत् ?, इत्याहव्यवहारस्य लोक-लोकोत्तररूढस्य सिद्ध्यर्थ प्रसिद्धिनिमित्तं मनो-वाग्योगावेव पृथक् कृतौ, न प्राणा-पानयोग इति ॥ ३६१ ।। ___ व्यवहारोऽपि किमितीत्थं प्रवृत्तः, इत्याह
कायकिरियाइरित्तं नाणा-पाणफलं जह वईए । दीसइ मणसो य फुडं तणुजोगभतरो तो सो ॥ ३६२ ॥
१ तनुयोग एव मनो-वाग्योगी कायेन द्रव्यग्रहणात् । आना-पानाविव, न चेत् , सकोऽपि योगान्तरं भवेत् ॥ ३६०॥ २ झ. 'णु व्व' क.ग. 'गंव' । ३ तुल्ये तनुयोगत्वे कस्माद् वा योगान्तरं सको न कृतः । मनो-वाग्योगी वा कृती, भण्यते व्यवहारसियर्थम् ।। ३६१ ॥ . कायक्रियातिरिक्तं नाऽऽना-पानफलं यथा वाचः । श्यते मनसश्च स्फुट तनुयोगाभ्यन्तरस्ततः सः ॥ ३६२ ॥ ५ क. 'णाणा'
Jan Education Internationa
For Personal and Private Use Only
Dirw.jaineltrary.org