SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ O विशेषा वृहदतिः । ॥३२६॥ सव्वमसंखेज्जगुणं कालाओ खत्तमोहिविसयम्मि । अवरोप्परसंबद्धं समय-प्पएसप्पमाणेणं ॥ ६२४ ॥ खेत्तपएसेहितो दव्वमणंतगुणियं पएसेहिं । दव्वेहिंतो भावो संखगुणो असंखगुणिओ वा ॥ ६२५ ॥ गाथाद्वयमपि गतार्थम् , नवरं यस्मात् सर्वमप्यकुलासंख्येयभागादिक क्षेत्रं स्वपदेशैरावलिकाऽसंख्येयभागादेः कालादेतत्समयानाश्रित्याऽसंख्येयगुणमवधिविषये प्रोक्तम्। क्षेत्रप्रदेशेभ्यस्तद् द्रव्यं प्रदेशैरनन्तगुणमित्यादि, तस्मात् कालादयः स्तोकादितयाऽनुमेया इति ॥ ६२४ ॥ ६२५ ॥ अथ पूर्वोक्तस्य निगमनार्थम् , उत्तरस्य च प्रस्तावनार्थमाह भणियं खेत्तपमाणं तम्माणमियं भणामि दबमओ । तं केरिसमारंभे परिणिट्ठाणे विमझे वा ॥ ६२६ ॥ भणितं जघन्यादिभेदं त्रिविधमपि क्षेत्रप्रमाणम् । सांपतं तस्य जघन्यादिभेदस्य क्षेत्रस्य यदनुलासंख्येयभागादिकं मानं तेन मितं परिच्छिन्नं द्रव्यमत ऊर्ध्वं भणामि, द्रव्यावस्थानापेक्षमेव क्षेत्रस्य भणनात् , अन्यथा हि मूर्तविषयेऽवधौ प्रक्रान्ते किममूर्तक्षेत्रभणनेन ? इति भावः । तच्च द्रव्यमारम्भे प्रस्तावने कीदृशमवधेविषयो भवति परिनिष्ठानेऽवसाने, विमध्ये वा कीदृशम् ? इत्येवं भणामि ॥ इति गाथापञ्चकार्थः॥ ६२६ ॥ खप्रतिज्ञातमेवाह तेया-भासादव्वाण अंतरा एत्थ लभइ पट्ठवओ। गुरुलहु अगुरुयलहुयं तं पि य तेणेव निट्ठाइ॥६२७॥ तैजसं च भाषा च तैजस-भाषे तयोर्द्रव्याणि तेषां तैजस-भाषाद्रव्याणामन्तरादपान्तराले 'एत्य त्ति' अत्रान्यदेव तदयोग्य द्रव्यं लभते पश्यति प्रस्थापकोऽवधिज्ञानप्रारम्भकः, अवधिप्रतिपत्तेति यावत् । किंविशिष्टं तत् ?, इत्याह-गुरुलघु, अगुरुलघु चेतिगुरुलघुपर्यायोपेतं गुरुलघु, अगुरुलघुपर्यायोपेतं त्वगुरुलध्विति । तत्र तैजसद्रव्यासन्नं गुरुलघु, भाषाद्रव्यासन्नं त्वगुरुलध्विति । तदपि १ सर्वमसंख्येयगुणं कालात् क्षेत्रमवधिविषये । परस्परसंबद्धं समय-प्रदेशप्रमाणेन ॥ ६२४ ॥ क्षेत्रप्रदेशेभ्यो द्रव्यमनन्तगुणितं प्रदेशैः । द्रव्येभ्यो भावः संख्यगुणोऽसंख्यगुणितो वा ॥ ६२५॥ २ भणितं क्षेत्रप्रमाणं तन्मानमितं भणामि दुव्यमतः । तत् कीदृशमारम्भे परिनिष्ठाने विमध्ये वा ॥ १२६॥ ३ तैजस-भाषाव्याणामन्तरात्र लभते प्रस्थापकः । गुरुलध्वगुरुकलघुकं तदपि च तेनैव नितिष्ठति ॥ १२७ ॥ ४ घ.छ. 'पेतमगु' । O॥३२६॥ Jan Education inte For Personal and Private Use Only www.jaineltrary.ory
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy