________________
विशेषा
बृहत
॥३२५||
सुहुमो य होइ कालो तत्तो सुहुमयरं हवइ खेत्तं । अंगुलसेढीमित्ते ओसप्पिणीओ असंखेज्जा ॥ ६२१ ॥
सूक्ष्मस्तावत्कालो भवति, यस्मादुत्पलपत्रशतभेदे प्रतिपत्रभेदमसंख्येयाः समया लगन्तीत्यागमे प्रतिपाद्यते । न चातिसूक्ष्मत्वेन ते पृथग विभाव्यम्ते; तथापि ततः कालात् सूक्ष्मतरं भवति क्षेत्रं, यस्मादङ्गुलश्रेणिमात्रे क्षेत्रे प्रतिपदेशं समयगणनयाँ प्रदेशपरिमाणमवसर्पिण्योऽसंख्येयास्तीर्थकृद्भिरुक्ताः । इदमुक्तं भवति- अङ्गुलश्रेणिमात्रे क्षेत्रे यः प्रदेशराशिः स प्रतिसमयं प्रदेशापहारेणापहियमाणोऽसंख्येयावसर्पिणीभिरपहियते ॥ इति नियुक्तिगाथार्थः ॥ ६२१ ।।
अथ भाष्यम्
खेत्तं बहुयरमंगुलसेढीमित्ते पएसपरिमाणं । जमसंखेज्जोसप्पिणिसमयसमं थोरओ कालो ॥ ६२२ ॥ गतार्थैव ॥ ६२२ ॥
आह- ननु 'कालात् क्षेत्रं सूक्ष्म' इत्यवगतम् , क्षेत्रात् तु द्रव्य-भावौ कथंभूतौ ?, इति कथ्यताम् , इत्याशङ्कय कालात् क्षेत्र-द्रव्य| भावानां यथोत्तरं सूक्ष्मत्वोपदर्शनार्थमाह
कालो खित्तं दव्वं भावो य जहुत्तरं सुहुमभेया । थोवा-संखा-णंता-संखा य जमोहिविसयम्मि ॥ ६२३ ॥
कालादयो यथोत्तरं मूक्ष्मभेदाः समनुमीयन्ते । कुतः?, यतः सर्वत्रावधिविषये स्वप्रतियोगिक्षेत्राद्यपेक्षया स्तोकः कालो भणितः, ततः क्षेत्रमसंख्येयगुणं, ततोऽपि द्रव्यमनन्तगुणम् , पर्यायास्तु "देवार्ड असंखेजे संखेजे यावि पज्जवे लहइ" इतिवचनाद् द्रव्यादसंख्येयगुणाः, संख्येयगुणा वेति ॥ ६२३ ॥ एतदेव व्यक्तीकृत्य भावयति
, सूक्ष्मश्च भवति कालस्ततः सूक्ष्मतरं भवति क्षेत्रम् । अल श्रेणिमात्रेऽवसर्पिपयोऽसंख्येयाः ॥ २१॥ २ क.स.ग. 'या प्रतिप्र'। ३ क्षेत्रं बहुतरमङ्गुलश्रेणीमान्ने प्रदेशपरिमाणम् । यदसंख्येयावसर्पिणीसमयसमं स्तोकका कालः ॥ ५२२॥ * कालः क्षेत्रं द्रव्य भावश्च यथोत्तरं सूक्ष्मभेदाः । स्तोका-ऽसंख्या-ऽनन्ता-ऽसंख्याश्च यदवधिविषये ॥ २३ ॥ ५ पादसंख्येयान् , संख्येयांश्चापि पर्यवान् लभते । ६ क.ख.ग. 'ज संखेने असं'।
॥३२५॥
Jan Education Intem
For Personal and Private Use Only
www.jaineltrary.ary