________________
बृहद्वृत्तिः ।
तदेकदेशोऽपीति । तथा, कालेऽसंख्येये पल्योपमादिलक्षणेऽवधिविषये सति तस्यैवासंख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतः परिच्छेदविशेषा तया द्वीप-समुद्राश्च भक्तव्या विकल्पयितव्याः- कदाचिदसंख्येयाः- यदिह कस्यचिद् मनुष्यस्यासंख्येयद्वीप-समुद्रविषयोऽवधिरुत्पद्यते
कदाचिद् महान्तः संख्येयाः, कदाचित्चतिमहानेकः, कदाचित्तु तदेकदेशोऽपि स्वयंभूरमणतिरश्चोऽवधिविजेयः, स्वयंभूरमणविषयमनु॥३२३॥
ष्यवाह्यावधिर्वा; योजनापेक्षया तु सर्वपक्षेष्वसंख्येयमेव क्षेत्रं द्रव्यम् ॥ इति नियुक्तिगाथार्थः ॥ ६१५ ॥
अथ भाष्यम्
कोले असंखए दीव-सागरा खुड्डया असंखेज्जा । भयणिज्जा य महल्ला खेत्तं पुण तं असंखेज्जं ॥ ६१६ ॥ गतार्थैव । एवं तावत् परिस्थिरन्यायमङ्गीकृत्य क्षेत्रवृद्धौ कालवृद्धिरनियता, कालवृद्धौ तु क्षेत्रवृद्धिर्भवत्येवेति प्रतिपादितम् ॥६१६।। सांप्रतं द्रव्य-क्षेत्र-काल-भावापेक्षया यदृद्धौ यस्य वृद्धिर्भवति, यस्य वा न भवति, अमुमर्थ प्रतिपादयन्नाह
काले चउण्ह वुड्ढी कालो भइयव्वो खेत्तवुड्ढीए । वुड्ढीए दव-पज्जव भइयव्वा खित्त-कालाओ॥६१७॥
कालेऽवधिगोचरे वर्धमाने सतीति गम्यते, 'चउण्ह वुड्ढि त्ति' नियमात् क्षेत्रादीनां चतुर्णामपि वृद्धिर्भवति । कालाव मूक्ष्म-मूक्ष्मतर-मूक्ष्मतमत्वात् क्षेत्र-द्रव्य-पर्यायाणां, तथाहि- कालस्य समयेऽपि वर्धमाने क्षेत्रस्य प्रभूतप्रदेशा वर्धन्ते, तदृद्धौ चावश्यभाविनी द्रव्यवृद्धिः, प्रत्याकाशप्रदेशं द्रव्यप्राचुर्यात् ; द्रव्यदृद्धौ च पर्यायवृद्धिर्भवत्येव, प्रतिद्रव्यं पर्यायबाहुल्यादिति । यद्येवम् , 'काले वर्धमाने शेषस्य क्षेत्रादित्रयस्य वृद्धिर्भवति' इत्येवमेव वक्तुमुचितम् , कथं 'चतुर्णाम्' इत्युक्तम् ? । सत्यम् , किन्तु सामान्यवचनमेतत् , तथाहि- यथा देवदत्ते भुञ्जाने सर्वमपि कुटुम्ब भुक्त इत्यादि । अन्यथा ह्यत्रापि 'देवदत्ताच्छेषमपि कुटुम्ब भुङ्क्ते' इति वक्तव्यं स्यात् , इत्यदोषः । 'कालो भइयव्वो खेत्तबुढीए ति क्षेत्रस्यावधिगोचरस्य वृद्धावाधिक्ये सति कालो भक्तव्यो विकल्पनीयो- वर्धते वा नवा, प्रभूते क्षेत्रे वृद्धिं गते वर्धते कालः, न स्वल्पे इति भावः; अन्यथा हि यदि क्षेत्रस्य प्रदेशादिवृद्धौ कालस्य नियमेन समयादिवृद्धिः स्यात् , तदाऽङ्गुलमात्रादिकेऽपि वर्धिते क्षेत्रे कालस्याऽसंख्येया उत्सर्पण्यवसर्पिण्यो वधैरन् , तथाच वक्ष्यति- 'अंगुलसेढीमित्ते Ko ओसप्पिणीओ असंखेज्जा' इति । ततश्च 'आवलिया अंगुलपुहुत्तं' इत्यादि सर्व विरुध्येत । तस्मात् क्षेत्रवृद्धौ कालवृद्धिर्भजनीयैव,
१ कालेऽसंख्ये द्वीप-सागराः क्षुद्रका असंख्येयाः । भजनीयाश्च महान्तः क्षेत्र पुनस्तदसंख्येयम् ॥ ६१६ ॥ २ काले चतुर्णी वृद्धिः कालो भक्तव्यः क्षेत्रवृद्धी । वृद्धी द्रव्य-पर्याययोभक्तव्यो क्षेत्र-कालौ ।। ६१७ ॥ ३ गाथा ६२१ । ४ गाथा ६०८ ।
EPAPERSARACTERESIDES
॥३२३॥
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.ory