________________
विशेषा ०
॥३०२ ॥
Jain Educations Internation
तमचक्खुदंसणेणं' इति वचनादचक्षुर्दर्शनमाश्रित्य श्रुतज्ञाने या पश्यत्ता मोक्ता सा इत्यतोऽप्ययुक्ता । कुतः १, इत्याह- येन प्रज्ञापनायां मतिभेदौ, अचक्षुर्दर्शनं च वर्जयित्वैव पश्यत्ता प्रोक्ता । अतोऽचक्षुर्दर्शनमाश्रित्याऽयुक्तैव श्रुतज्ञाने पश्यत्ता । ततो "जाणइ न पास " इति पाठ इति स्थितम् । इयं च गाथा पूर्वटीकाकारैर्गृहीता, 'कण्ठचा' इति च निर्दिष्टा, न तु व्याख्याता; अस्माभिस्तु यथावबोधं किञ्चिदविता, सुधिया त्वन्यथाऽप्यविरोधतो व्याख्येयेति । तदेवं भेदतो विषयतश्च निरूपितं श्रुतज्ञानम् ॥ ५५५ ॥
सांप्रतं सत्पदप्ररूपणतादिभिर्नवभिरनुयोगद्वारैर्गत्यादिमार्गणास्थानेषु तद् गमनयिम् । एतच्चाभिन्नस्वामित्वात् पूर्वोक्तमति - ज्ञानेन समानम्, इत्यतिदिशन्नाह
जैह नवहा मइनाणं संतपयपरूवणाइणा गमियं । तह नेयं सुयनाणं जं तेण समाणसामित्तं ॥ ५५६ ॥ गतार्थैव ।। ५५६ ।।
अथोत्तरनिर्युक्तिगाथांसंबन्धनायाह
सैव्वाइसयनिहाणं तं पाएणं जओ पराहीणं । तेण विणेयहियत्थं गहणोवाओ इमो तस्स ॥ ५५७ ॥ तच्च श्रुतज्ञानं यतो यस्मादनेकातिशयनिधानं प्रायः पराधीनं च गुर्वायत्तम् तेन कारणेन तस्य श्रुतज्ञानस्याऽयं वक्ष्यमाणो ग्रहणोपायो ग्रहणविधिः 'तीर्थकर - गणधरैरुक्तः' इति शेषः ।। इति गाथापञ्चकार्थः ॥ ५५७ ॥
कः पुनर्ग्रहणोपायः १, इत्याह
आगमसत्थग्गणं जंबुद्धिगुणेहिं अट्ठहिं दिडं । बेति सुयनाणलंभं तं पुव्वविसारया धीरा ॥ ५५८ ॥
पूर्वेषु विशारदा विपश्चितो धीरा व्रतानुपालनस्थिराः श्रुतज्ञानस्य लाभं ब्रुवते प्रतिपादयन्ति । किं तत् १, इत्याह- 'तं ति' तदेवागमशास्त्रग्रहणं । यत् किम् १, इत्याह- यद्बुद्धिगुणैर्वक्ष्यमाणस्वरूपैरष्टभिर्दिष्टं शास्त्रे, इत्यक्षरयोजना । अयमर्थः- शिष्यते शिक्ष्यते बोध्यतेऽनेनेति शास्त्रं तच्चाविशेषितं सामान्येन सर्वमपि मत्यादिज्ञानमुच्यते, सर्वेणापि ज्ञानेन जन्तूनां बोधनात् । अतो विशेषे स्थापयि
१ यथा नवधा मतिज्ञानं सत्पदप्ररूपणादिना गमितम् । तथा ज्ञेयं श्रुतज्ञानं यत् तेन समानस्वामित्वम् ॥ ५५६ ॥ २ ख.प.छ. 'थां संबन्धयन्नाह' । ३ सर्वातिशयनिधानं तत् प्रायेण यतः पराधनिम् । तेन विनेयहितार्थ ग्रहणोपायोऽयं तस्य ॥ ५५७ ॥
४ भागमशास्त्रग्रहणं यद् बुद्धिगुणैरष्टभिर्दिष्टम् । नुवते श्रुतज्ञानलाभं तत् पूर्वविशारदा धीराः ॥ ५५८ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥३०२ ॥
www.lainelibrary.org