________________
बृहदृत्तिः ।
विशेषा. ॥३०१॥
__ मतेर्भेदो मतिमेदो मतिज्ञान-मत्यज्ञानलक्षणस्तं, तथाऽचक्षुर्दर्शनं च वर्जयित्वा येन कारणेन प्रज्ञापनायां त्रिंशत्तमपदे पश्यत्ता स्फुटा व्यक्ता भणिता, तेन श्रुते श्रुतज्ञानेऽपि पश्यत्ता युक्ता “ जाणइ पासइ" इति पाठो युक्त इत्यर्थः । तथाच प्रज्ञापनात्रिंशत्तमपद- सूत्रम्- “ केइविहा णं भंते ! पासणया पण्णत्ता । गोयमा ! दुविहा, तं जहा- सागारपासणयाँ य, अणागारपासणया य । सागारपासणया णं भन्ते ! कइविहा पण्णत्ता गोयमा ! छन्विहा पण्णत्ता, तं जहा-सुयनाणसागारपासणया, ओहि-मणपज्जव-केवलनाणसागारपासणया, सुयअन्नाण-विभंगनाणसागारपासणया य । अणागारपासणया णं भंते ! कइविहा पण्णत्ता। गोयमा ! तिविहा पण्णत्ता, तं जहा- चक्खुईसण-ओहिदसण-केवलदंसणअणागारपासणया" इति ।
अथ 'पासणया' इति कः शब्दार्थः । उच्यते-पश्यतो भावः पश्यत्तोपयोग इत्यर्थः, यथोपयोगशब्देन साकारानाकारभेदभिन्न उपयोगोऽभिधीयते तथा पश्यत्ताशब्देनापीत्यर्थः । आह-यद्येवम् , पर्यायशब्दावेतौ, तत् किमित्युपयोगात् पश्यत्ता पृथगधीता। सत्यम् , किन्तु साकारोपयोगोऽष्टधा प्रोक्तः, साकारपश्यत्ता तु षोढा, मतिज्ञान-मत्यज्ञानयोस्तदभणनात् । अनाकारोपयोगोऽपि चतुर्धा प्रोक्तः, अनाकारपश्यत्ता पुनस्त्रिधा, अचक्षुर्दर्शनस्य तदनभिधानात् : पश्यत्ताशब्दो हि 'दृशिरपेक्षणे' अस्य धातोनिष्पद्यते, प्रकृष्टं चेक्षणं त्रिकालविषये शीघ्रमेवार्थपरिच्छेदनपटिष्ठेऽवबोधे भवति । मतिज्ञान-मत्यज्ञाने च प्रायःसांपतकालविषये एव, इति न तयोः पश्यत्ता । शीघ्रं चाऽर्थपरिच्छेदो यथा चक्षुषः, न तथा शेषाणां श्रोत्र-प्राणादीन्द्रियाणां, चक्षुरुपयोगापेक्षया तदुपयोगस्येन्द्रियपदे दीर्घ-दीर्घतरत्वेनाभिधानात् । | मनसस्तु शीघ्रार्थपरिच्छेदेऽप्यनाकारपश्यत्ता न विवक्षिता, उपयोगमात्रस्यैव तत्र विवक्षणात् । अतोऽचक्षुर्दर्शनेऽपि न पश्यत्ता । तदेवं श्रुताऽवधि-मनःपर्याय-केवलज्ञान-श्रुताज्ञान-विभङ्गज्ञानभेदात् षोढा साकारपश्यत्ता, अष्टधा तु साकारोपयोगः, चक्षु-रवधि-केवलदर्शनभेदात् तु त्रिधाऽनाकारपश्यत्ता, चतुर्धा त्वनाकारोपयोगः; इत्युपयोग-पश्यत्तयोर्भेदः । तदेवं मतिभेदो, अचक्षुर्दर्शनं च वर्जयित्वा श्रुतज्ञानादिषु प्रज्ञापनायां पश्यत्ता प्रोक्ता, तामाश्रित्य श्रुते युक्ता पश्यत्तेति स्थितम् ।
केषुचित्तु पुस्तकेषु 'तेण सुए पासणाऽजुत्ता' इत्येवमकारप्रश्लेषो दृश्यते, तत्राऽयमर्थः- पूर्वगाथायां 'पासइ य केइ सो पुण
SA
१ क. ग. 'त्वा यथा ये ख. 'त्वा तथा ये'।
२ कतिविधा भगवन् ! पश्यत्ता प्रशप्ता । गौतम ! द्विविधा, सथथा- साकारपश्यत्ता च, अनाकारपश्यत्ता च । साकारपश्यत्ता भगवन् ! कतिविधा प्राप्ता । गौतम ! षड्विधा प्रज्ञप्ता, तद्यथा-श्रुतज्ञानसाकारपश्यत्ता, अवधि-मनःपर्यव-केवलज्ञानसाकारपश्यत्ता, श्रुताज्ञान-विभङ्गज्ञानसाकारपश्यत्ता च । अनाकारपश्यत्ता भगवन्! कतिविधा प्रज्ञप्ता । गौतम ! त्रिविधा प्राप्ता, तद्यथा-चक्षुर्दर्शना-ऽवधिदर्शन-केवलदर्शनाऽनाकारपश्यत्ता । ३५. छ.' या अ' । ४ गाथा ५५३ ।
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.ary