SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृप्रथमो ॥ १९ ॥ | ततो पच्छा सिज्झइ जाव अंतं करे "त्ति । एतच्चोत्तरोत्तरव्यवहारविशुद्धावेव युज्यते, पर्यायवृद्धेर्हेतोरुपदेशात् । नियमश्चायं श्रमणविशेषापेक्षयैव, आन्यथा कस्यचिदल्पेनापि कालेन शुक्लत्वोपपत्तेः, कस्यचिच्च महतापि कालेन तदनुपपत्तेरिति वृत्तौ व्यक्तम् । ततः सिद्धं निश्चयवद्व्यवहारतोऽपि तुल्यवत्सिद्धिरिति । यच्चोक्तं निश्चयार्थोपदर्शनार्थमात्रत्वाद्व्यवहारो नादरणीय इति तन्न, एतस्य परिभाषामात्रत्वात्, नयत्वेनोभयोरविशेषात् परमार्थतो नयातीतप्रमाणभूतत्वादात्मतत्त्वस्येति दिग् ॥ ५७ ॥ भरतादिदृष्टान्तेनोक्तं व्यवहारवैफल्यं निराकर्तुमाह भरहाईणं णाया, वेफलं णेव होइ ववहारे । आहञ्चभावओ चिय, जमिणं आवस्सए भणियं ॥ ५८ ॥ 'भाई'ति । भरतादीनां 'ज्ञातात्' दृष्टान्तात् नैव व्यवहारे वैफल्यं भवति, 'आहत्यभावादेव' कादाचित्कत्वादेव । तथा च कदाचिद्दण्डं विनापि हस्तादिनैव चक्रभ्रमणाद्धोत्पादेऽपि घटं प्रति दण्डस्येव व्यवहारं विनापि पूर्वभवाभ्यस्त करणानां तथाभव्यत्वपरिपाकवतां भरतादीनां कदाचित्केवलज्ञानोत्पादेऽपि तं प्रति व्यवहारस्य न हेतुताक्ष| तिः, द्वारस्यान्यत एव सिद्धेः स्वप्रयोज्यद्वारसम्बन्धेनैव च हेतुत्वात् । प्रसन्नचन्द्रादीनां च बाह्यव्यवहारसत्त्वेऽपि केवलज्ञानानुत्पादो न दोषाय, अन्तरकरणासत्त्वात् सामग्र्या एव कार्यजनकत्वादविवेकमूलव्यभिचारदर्शनस्य विवेकिनामविश्वासाजनकत्वात्तादृशाविश्वासस्य महानर्थनिमित्तत्वादिति भावः । अत्र सम्मतिमाह-यदिदं भणितमावश्यके ॥५८॥ पत्तेअबुद्धकरणे, चरणं णासंति जिणवरिंदाणं । आहच्चभावकहणे, पंचाहिँ ठाणेहिँ पासत्था ॥ ५९ ॥ 'पत्तेय'त्ति । प्रत्येकबुद्धाः - पूर्वभवाभ्यस्तो भयकरणा भरतादयस्तेषां यरकरणम् - आभ्यन्तराचरणं तस्मिन्नेव फलसा Jain Education International For Private & Personal Use Only) गुरुतत्त्व विनिश्चयः : ल्लासः व्यवहारव फल्यनिरा करणम्. ॥ १९ ॥ nelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy