________________
ROCROSSOBLUSAUSAUS
खाद्याकलनकुशला नियोगदृष्टिर्भिन्ना, तथा प्रथमभिक्षाटनादिव्यवहारापेक्षयोत्तमदृष्टिसम्पन्नस्य तदुत्तरो भिक्षाटनादिव्यवहारोऽपि भिन्न एवेति भावः ॥५६॥ उक्तार्थे सम्मतिमाह| इत्तो पण्णत्तीए, ववहारे सवओ मलच्चाया । संवच्छराउ उड्डे, भणिअं सुक्काभिजाइत्तं ॥ ५७ ॥ | इत्तोत्ति । 'इतः' उत्तरोत्तरव्यवहारस्य विशुद्धत्वात् 'प्रज्ञप्तौ' व्याख्याप्रज्ञप्तौ 'व्यवहारे' चारित्रक्रियालक्षणे 'सर्वतः' सर्वप्रकारेण मलस्य-खेदादिदोषलक्षण त्यातिचारलक्षणस्य वा त्यागात् 'संवत्सरादूर्ल्ड' वर्षपर्यायानन्तरं 'शुक्लाभिजात्यत्वं' सुखासिकारूपानुत्तरोपपातिकदेवतेजोलेश्याव्यतिक्रमानन्तरस्याभिन्नवृत्तामत्सरिकृतज्ञसदारम्भिहितानुबन्धित्वलक्षणस्य निरतिचारचरणलक्षणस्य वा शुक्लत्वस्य प्राप्तेरनन्तरं परमशुक्लत्वं भणितम् , तथा च तदालाप:-"जे इमे भंते ! अजताए समणा णिग्गंथा विहरन्ति एते णं कस्स तेउलेस्स वीतिवयंति ? गोयमा ! मासपरिआए समणे जिग्गंथे वाणमंतराणं देवाणं तेउलेस्सं वीतिवयति, दुमासपरिआए समणे णिग्गंथे असुरिंदवजिआणं भवणवासीणं तेउलेस्सं वीतिवयति, एवं एतेणं अभिलावेणं तिमासपरिआए असुरकुमाराणं देवाणं चउमासपरिआए गहगणणक्खत्ततारारूवाणं जोइसिआणं देवाणं पंचमासपरिआए चंदिमसुरिआणं जोइसिआणं जोइसराईणं छम्मासपरिआए सोहम्मीसाणाणं देवाणं सत्तमासपरिआए सणंकुमारमाहिंदाणं देवाणं अट्टमासपरिआए बंभलोअलंतगाणं देवाणं णवमासपरिआए महासुक्कसहस्साराणं देवाणं दसमासपरिआए आणयपाणयआरणअच्चआणं देवाणं एक्कारसमासपरिआए गेवेजगाणं देवाणं बारसमासपरिआए समणे णिग्गंथे अणुत्तरोववाइआणं देवाणं तेउलेस्सं वीतिवतति, तेण परं सुक्के सुक्काभिजातिए भवित्ता
गुरुत, ४
Jain Educat
For Private & Personal use only
library.org