________________
CASSAGAR
विधेयपदवृत्त्यधीनं, सा च विवक्षाधीनेत्यादेशसाकल्यमपि तथेति नयप्रमाणवाक्ययोरित्थं भेद एव । मलयागिरिपादवचनं त्वप्रतिपक्षधर्माभिधानस्थलेऽवच्छेदकभेदाभिधानानुपयुक्तेन स्यात्पदेन साक्षादनन्तधर्मात्मकत्वाभिधानात्तत्र प्रमाणनयाभेदानभ्युपगन्तृर्विदग्धदिगम्बरनिराकरणाभिप्रायेण योजनीयम् । अधिकं तु बहुश्रुता विदन्ति ॥५२॥ अथ परमभावगता निश्चय एव स्थिता इत्ययमेव बलीयानित्यभिनिवेशं निराचिकीर्षुराह
णिच्छयठिय व मुणिणो, ववहारठिया वि परमभावगया। णिटिअसेलेसि चिय, सवकिट्ठो परमभावो ॥ FI णिच्छयठिय वत्ति । निश्चयस्थिता इव व्यवहारस्थिता अपि मुनयः परमभावगता एव, उभयत्राप्यानवनिवृत्तेरेव
परमभावत्वात् , उत्कर्षलक्षणस्य पारम्यस्याप्युभयत्राविशेषात् । सर्वोत्कृष्टश्च परमभावो निष्ठिता-काष्ठाप्राप्ता चरमसम- यारू ढेति यावत् शैलेश्येव, तदुक्तं धर्मसङ्ग्रहण्याम्-“सो उ भवक्खयहड, सेलेसीचरमसमयभावी जो । सेसो पुण णिच्छयओ, तस्सेव पसाहगो भणिओ ॥१॥” इति । तथा च सर्वोत्कर्षाभिमानिना निश्चयवादिना निष्ठितां शैलेशी विना न किञ्चिदादरणीयम् , तदर्थमुत्कर्षबुद्ध्यैव प्राचीनादरे च निश्चयार्थ व्यवहारोऽपि तथैवादरणीय इति सिद्धम् ॥५३॥ निश्चये ध्यानलक्षणं पारम्यमस्ति व्यवहारे तु तन्नेत्याशङ्कां विक्षिपन्नाहववहारे वि मुणीणं, झाणप्पा अक्खओ परमभावो। जत्तस्स दढत्ताओ, जमिणं भणियं महाभासे ५४॥ 'ववहारे वित्ति । 'व्यवहारे' पदवाक्यमुद्रावर्त्तादिप्रणिधानगर्भकायवाग्व्यापाररूपेऽपि मुनीनां ध्यानात्मा परमभा
परमभावगतानां नि श्चयगतत्वे
निश्चयस्यैव है। बलीयस्त्व
मिति दुरभिसन्धेनिरसनम्.
ध्यानलक्षण | पारम्यं नि श्चय एव
तु व्यवहा
इत्यस्य निर
सनम्,
Jain Education International
ForPrivate LPersonal use Only
www.jainelibrary.org