________________
SASARAMASCCCCCXCX
इत्यर्थः, 'ज्ञेये' प्रमाणपरिच्छेद्य वस्तुनि 'भेदाभेदाभिसन्धयः' सामान्यविशेषविषयाः पुरुषाभिप्राया अपेक्षानपेक्षाभ्यां लक्ष्यन्ते ते यथासङ्घयं नयदुर्णया ज्ञातव्याः।किमुक्तं भवति ? विशेषसाकाङ्कः सामान्यग्राहकोऽभिप्रायो विशेषपरिग्राहको वा सामान्यसापेक्षो नयः, इतरेतराकाङ्क्षारहितस्तु दुर्नयः॥" नयचिन्तायामपि च ते दिगम्बराः स्यात्पदप्रयोगमिच्छन्ति, तथा । चाकलङ्क एव प्राह-"नयोऽपि तथैव सम्यगेकान्तविषयः स्यात्" इति । अत्र टीकाकारण व्याख्या कृता-'नयोऽपि नयप्रतिपादकमपि वाक्यं न केवलं प्रमाणवाक्यमित्यपिशब्दार्थः, 'तथैव' स्यात्पदप्रयोगप्रकारेणैव सम्यगेकान्तविषयस्यात् , यथा स्यादस्त्येव जीव इति । स्यात्पदप्रयोगाभावे तु मिध्यकान्तगोचरतया दुर्नय एव स्यादिति" तदेतदयुक्तं, प्रमाणनयविभागाभावप्रसक्तः, तथाहि-स्याजीव एवेति किल प्रमाणवाक्यम् , स्यादस्त्येव जीव इति नयवाक्यम्, एतच्च द्वयमपि लघीयस्तत्त्वालङ्कारे साक्षादकलकेनोदाहृतम् । अत्र चोभयत्राप्यविशेषः, तथाहि-'स्याज्जीवः एव]' इत्यत्र जीवशब्देन प्राणधारणनिबन्धना जीवशब्दवाच्यताऽभिधीयते, एवकारप्रयोगतोऽसाधारणसाधारणधर्माक्षेपः । स्यादस्त्येव जीव इत्यत्र जीवशब्देन जीवशब्दवाच्यताप्रतिपत्तिरित्युभयत्राप्यविशेष एव । तथा च सिद्धव्याख्याता न्यायावतारविवृती स्थादस्त्येव जीव इति प्रमाणवाक्यमुपन्यस्तवान् , तथा च तदतोग्रन्थः-"यदा तु प्रमाणव्यापारमविकलं परामृश्य प्रतिपादयितुमभिप्रयन्ति तदाङ्गीकृतगुणप्रधानभावाशेषधर्मसूचककथञ्चित्पर्यायस्याच्छब्दविभूषितया सावधारणया च वाचा दर्शयन्ति स्यादस्त्येव जीव इत्यादिकया। अतोऽयं स्याच्छब्दसंसूचिताभ्यन्तरीभूतानन्तधर्मकस्य साक्षादुपन्यस्त जीवशब्दक्रियाभ्यां प्रधानीकृतात्मभावस्यावधारणव्यवच्छिन्नतदसम्भवस्य वस्तुनः संदर्शकत्वात्सकलादेश इत्युच्यते, प्रमाणप्रति-14
Jain Education International
For Private & Personal Use Only