________________
खोपज्ञव- त्तियुतः प्रथमो.
गुरुतत्वविनिश्चयः
प्रवचनार्थ जानानेन प्रयोक्तव्यः । अवधारणाभावे तु जीवाजीवादिवस्तुतत्त्वव्यवस्थाविलोपप्रसङ्गः, तथाहि-यद्यन्यव्यवच्छेदेन ज्ञानदर्शनोपयोगलक्षणो जीव एवेति नावधार्यते तर्हि अजीवोऽपि तल्लक्षणः स्यादिति जीवाजीवव्यवस्थालोपः । तथा यदि ज्ञानदर्शनोपयोगलक्षण एवं जीव इत्यन्ययोगव्यवच्छेदो नाभ्युपगम्यते ततोऽन्यत्किमप्यजीवानुगतमजीवसाधारणं वा तथालक्षणमाशयेत तथाऽपि जीवेतरविभागपरिज्ञानाभावः, ततो यथासम्यग्वादित्वमिच्छता
सर्वत्र स्यात्पदप्रयोगः साक्षाद्गम्यो वाऽनुश्रियते तथा यथायोगमवधारणविधिरपि, अन्यथा यथाऽवस्थितवस्तुतत्त्वप्रतिडापत्त्यनुपपत्तेः । न चावधारणविधिः सिद्धान्ते नानुमत इति वक्तव्यम् , तत्र तत्र प्रदेशेऽनेकशोऽवधारणविधिदर्शनात्,
तथाहि-"किमयं भंते ! कालो त्ति पवुच्चइ ? गोयमा! जीवा चेव अजीवा चेव ।” स्थानाङ्गेऽप्युक्तम्-"जदित्थं च णं लोए तं सबं दुपडोआरं, तंजहा-जीवा चेव अजीवा चेव । तहा-जह चेव उ मोक्खफला आणा आराहिआ जिणिदाणं" इत्यादि । या त्ववधारणी भाषा प्रवचने निषिध्यते सा क्वचित् तथारूपवस्तुतत्त्वनिर्णयाभावात् , कचिदेकान्तप्रतिपादिका वा, न तु सम्यग्यथावस्थितवस्तुतत्त्वनिर्णये स्यात्पदप्रयोगावस्थायामिति । दैगम्बरी त्वियं प्रमाणनयपरिभाषा-"सम्पूर्णवस्तुकथनं प्रमाणवाक्यम् , यथा-स्याज्जीवः स्याद्धमास्तिकाय इत्यादि । वस्त्वेकदेशकथनं नय- वादः।" तत्र यो नाम नयो नयान्तरसापेक्षः स नय इति वा सुनय इति वा प्रोच्यते, यस्तु नयान्तरनिरपेक्षः स दुर्नयो नयाभास इति, तथा चाहाकलङ्कः-"भेदाभेदात्मके ज्ञेये, भेदाभेदाभिसन्धयः। ये तेऽपेक्षानपेक्षाभ्यां, लक्ष्यन्ते नयदुर्नयाः॥१॥" अस्याः कारिकाया लेशतो व्याख्या-भेदः-विशेषः अभेदः-सामान्यं तदात्मके-सामान्यविशेषात्मक
दैगम्बरीप्रमाणनयपरिभाषा.
Main Education International
For Private
Personal Use Only
www.jainelibrary.org