SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ पथमवतीर्णा न सर्वत्र सर्वदा साक्षात्स्यात्सदं प्रयुञ्जते तथापि तत्राप्रयुक्तोऽपि सामर्थ्यात् स्याच्छन्दो द्रष्टव्यः, प्रयोजकस्य कुशलत्वात् , उक्तञ्च-"अप्रयुक्तोऽपि सर्वत्र, स्यात्कारोऽर्थात्प्रतीयते । विधौ निषेधेऽन्यत्रापि, कुशलश्चेत्प्रयोजकः॥१॥" अत्रान्यत्रापीति अनुवादातिदेशादिवाक्येषु । ननु यदि सर्वत्र स्यात्पदप्रयोगानुसरणं तर्हि मूलत एवापगतोऽवधारणविधिः, परस्परमनयोविरोधात् , तथाहि-अवधारणमन्यनिषेधपरं स्यात्पदप्रयोगस्त्वन्यसङ्ग्रहणशील इति, तदयुक्तम् , सम्यग्वस्तुतत्त्वापरिज्ञानात् , स्यात्पदप्रयोगो हि विवक्षितवस्त्वनुयायिधर्मान्तरसङ्ग्रहणशीलः, अवधारणविधिस्तु तत्तदाशङ्कितान्ययोगादिव्यवच्छेदादिफलः, तथाहि-ज्ञानदर्शनवीर्यसुखोपेतः किं जीवो भवति किं वा न? इत्याशङ्कायां प्रयुज्यतेस्याज्जीव एव । अत्र जीवशब्देन प्राणधारणनिबन्धनं जीवशब्दवाच्यत्वमभिधीयते । एवकारेण यदाशङ्कितं परेणाजीवश-12 ब्दवाच्यत्वं तस्य निषेधः । स्यात्पदप्रयोगात्तु ये ज्ञानदर्शनसुखादिरूपा असाधारणाः ये त्वमूर्त्तत्वासङ्ख्यातप्रदेशत्वादिल-4 क्षणा धर्मास्तिकायादिसाधारणाः येऽपि च सत्त्वप्रमेयत्वधर्मित्वगुणित्वादयः सर्वपदार्थसाधारणास्ते सर्वे प्रतीयन्ते ।। | यदा तु ज्ञानदर्शनादिलक्षणो जीवः किं वाऽन्यलक्षणः ? इत्याशङ्का तदैवमवधारणविधिः-स्यात् ज्ञानादिलक्षण एव जीवः । अत्र जीवशब्देन जीवशब्दवाच्यतामात्रं प्रतीयते, ज्ञानादिलक्षण एवेत्यलक्षणव्युदासः, स्यात्पदप्रयोगात्साधारणासाधारणधर्मपरिग्रहः । यदा तु जगति जीवोऽस्ति किं वा न? इत्यसम्भवाशङ्का तदैवमवधारणं-स्यादस्त्येव जीवः । अत्रापि जीवशब्दप्रयोगाजीवशब्दवाच्यताऽवगतिः, स्यात्पदप्रयोगादसाधारणसाधारणधर्मपरिग्रहः, अस्त्येवेत्यवधारणादसम्भवाशङ्काव्यवच्छेदः । एवमन्यत्रापि साक्षाद्गम्यमानतया वा स्यात्पदप्रयोगपुरःसरं यथायोगमवधारणविधिः सम्य RECESSAGARCARROR Jan Edua tematon For Private & Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy