SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवत्तियुतः प्रथमो ॥१५॥ भेदोपचाराद्वा यौगपद्येन प्रतिपादकं वचः सकलादेशः ४-४४ । तद्विपरीतस्तु विकलादेशः ४-४५।" इति । इतरस्य- गुरुतत्त्वभिन्नस्य नयस्याविराधनेन-अप्रतिक्षेपेण नयसज्ञा। 'इतरथा तु' इतरनयप्रतिक्षेपे तु दुर्नयसञ्ज्ञा । तदाहुदैवसूरयः-"नी- विनिश्चयः यते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः ७-१ । स्वाभि-| ल्लास.. प्रेतादशादितरांशापलापी पुनर्नयाभासः ७-२।” इति । उल्लेखस्तु नयस्य सदिति, दुर्नयस्य तु सदेवेति, तदाहुः श्रीहेम-181 चन्द्रसूरयोऽपि-"सदेव सत्स्यात्सदिति त्रिधार्थो मीयेत दुर्नीतिनयप्रमाणैः।” इति । स्यात्कारैवकारोच्चारणान्तर्भावेन स्यादस्त्येवेत्युल्लेखोऽपि नयस्य युक्त एव, विकलादेशस्वभावायाः सप्तभझ्या अपि प्रवृत्तेः वस्त्वंशग्राहकत्वेनैव प्रमाणसप्तभङ्गीतोऽस्याविशेषात् , तदुक्तम्-"नयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुब्रजति" इति । न चैवं नयः स्वपरव्यवसायित्वेन प्रमाणं स्याद्, वस्त्वेकदेशाऽज्ञाननिवृत्तिफलस्य तस्य वस्त्वज्ञाननिवृत्तिफलात्प्रमाणाद्भिन्नत्वव्यवस्थापनादित्यधिकं स्याद्वादकल्पलता-नयरहस्यादौ विवेचितमस्माभिः। मलयगिरिपादाः पुनरित्थमाहुरावश्य- 51 मलयगिरिकवृत्तौ-"इह यो नयो नयान्तरसापेक्षतया स्याद्वा(त्प)दलाञ्छितं वस्तु प्रतिपद्यते स प धनमा गाटालाडियनं मत प्रतिपद्यते स परमार्थतः परिपणे वस्तग्रहातीति कृता प्रमाणप्रमाण एवान्तर्भवति । यस्तु नयवादान्तरनिरपेक्षतया स्वाभिप्रेतेनैव धर्मेणाऽवधारणपूर्वकं वस्तु परिच्छेत्तुमभिप्रैति स नयव्याख्या. वस्त्वेकदेशपरिग्राहकत्वान्नय इत्युच्यते, स च नियमान्मिथ्यादृष्टिरेव, अयथावस्थितार्थवस्तुपरिग्राहकत्वात् , अत एवोकमन्यत्र-“सवे णया मिच्छावाइणो"त्ति। यत एव च नयवादो मिथ्यावादस्तत एव जिनप्रवचनतत्त्ववेदिनो मिथ्यावादित्वपरिजिहीर्षया सर्वमपि स्यात्कारपुरस्सरं भाषन्ते, न तु जातुचिदपि स्यात्कारविरहितम् । यद्यपि च लोकव्यवहार SUSMS Main Education International For Private & Personal use only wwwjina library.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy