SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ COMCALCOM नयानां प्र. माण-नयदुर्णय संज्ञा वोपदर्शनम शोधयति, तस्माद् 'द्वयोरपि' निश्चयव्यवहारयोः शुद्धत्वेऽपक्षपातो युक्तः ॥५१॥ नयशब्दवाच्यतयाऽपि दुर्नयव्यावृत्तया सर्वनयसाधारणं व्यवहारस्य शुद्धत्वमस्तीत्यभिप्रायवानाहअण्णुण्णं मिलिआणं, पमाणसण्णा णयाण णयसण्णा । इयराविराहणेणं, दुग्णयसण्णा य इहरा उ॥ | 'अण्णुण्ण'ति । 'अन्योऽन्य' परस्परं 'मिलितानाम्' अर्पणानर्पणाभ्यां संभूय साकल्येन सप्तभङ्गोपस्थापकतया संब- द्वानां नयानां प्रमाणसज्ञा, सप्तभङ्गपरिकरितपरिपूर्णार्थबोधकतापर्याप्तिमद्वाक्यस्यैव प्रमाणवाक्यत्वात् । तथाहि-प्रति- पर्यायं तावत्सप्तधैव सन्देहः, स्वगोचरवस्तुधर्माणां सप्तविधत्वनियमात् , ततश्च सप्तधा जिज्ञासा, ततः सप्तधा प्रतिपा- द्यपर्यनुयोग इति, तदनुरोधात्सप्तभङ्गात्मकमेव प्रमाणवाक्यमुपन्यसनीयं, न त्वेकादिभङ्गविकलं, सन्देहशेषाविच्छेदात् प्रत्यक्षस्यावग्रहादिचतुष्टयान्यतरवैकल्य इवागमस्याप्येकादिभङ्गवैकल्ये प्रमाणत्वाव्यवस्थानात् । सप्तभङ्गात्मकमपि च वाक्यं यद्यप्युक्तसकलसमारोपव्यवच्छेदकतया प्रमाणं तथापि विकलादेशस्वभावत्वेऽनन्तधर्मात्मकपरिपूर्णवस्त्वप्रापकत्वादप्रमाणम् । सकलादेशस्वभावत्वे तु विपर्ययात्प्रतिभङ्गं प्रमाणम् । सकलादेशस्वभावत्वं चास्तित्वादिधर्माणां शेषानन्तधर्म समं द्रव्यार्थिकनयप्राधान्ये पर्यायार्थिकनयगौणभावे चाभेदवृत्त्या पर्यायाथिकनयप्राधान्ये द्रव्याथिकनयगौणभावे चाभे | दोपचारेण युगपदनन्तधात्मकप्रतिपादकत्वम् । विकलादेशस्वभावत्वं च भेदवृत्तितदुपचाराभ्यामेकशब्दस्यानेकार्थप्र त्यायनशक्त्यभावलक्षणक्रमेण तत्प्रतिपादकत्वम् , तदुक्तं प्रमाणनयतत्त्वालोकालङ्कारे-"इयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च ४-४३ । प्रमाणप्रतिपन्नानन्तधात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्याद Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy