SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ CHARGauraMIRMIRMIRRORS त्मीयो विषयो ज्ञानमेव श्रेयः क्रिया वा श्रेयसीत्यादिकस्तं न श्रद्दधते । ये त्वतिपरिणामास्तेऽपि यदेवैकेन नयेन क्रियादिकं वस्त्वभिहितं तदेव तन्मात्रमेव प्रमाणतया गृह्णन्त एकान्तवस्तुप्रतिपादकनयानां परस्परविरोधं च मन्यमाना मिथ्यात्वं गच्छेयुः। ये च परिणामास्ते यद्यपि मिथ्यात्वं न गच्छन्ति तथापि विस्तरेण नयाख्यायमानैर्ये सूक्ष्माः सूक्ष्मतराश्च तद्भेदास्तान् ग्रहीतुमशक्ता भवेयुरिति मूलत एव नयविभागो न कृतः, तदुक्तं भाष्यकृता-“णाऊण रक्खि-61 अज्जो, मइमेहाधारणासमग्गं पि । किच्छेणं धरमाणं, सुपण्णवं पूसमित्तं पि॥१॥ अइसयकओवओगो, मइमेहाधारणाइपरिहीणे । नाऊण सेसपुरिसे, खेत्तं कालाणुरूवं च ॥२॥ साणुग्गहोऽणुओगे, वीसुं कासी य सुअविभागेण । | सुहगहणाइणिमित्तं, णए अ सुणिगृहियविभागे ॥ ३ ॥ सविसयमसदहंता, णयाण तम्मत्तयं च गिण्हंता । मण्णंता य है विरोह, अपरीणामातिपरिणामा ॥ ४ ॥ गच्छेज मा हु मिच्छं, परिणामा य सुहुमाइबहुभेए । हुजाऽसत्ता घेत्तुं, ण का लिए तो नयविभागो॥५॥"त्ति । केवलमाद्यैस्त्रिभिर्नयैः परिकर्मितः सन् दृष्टिवादयोग्यो भवतीत्याद्यनयत्रयलक्षणस्य ४व्यवहारस्यात्राधिकारः, तदुक्तम्-"पायं संववहारो, ववहारतेहिं तीहिं जं लोए। तेण परिकम्मणत्थं, कालियसुत्ते तदहिगारो ॥१॥” त्ति । उक्तार्थे सूत्रालापसम्मतिमाह-'यत्' यस्माद् भणितमिदमावश्यके ॥ ४९॥ . एएहिँ दिट्ठिवाए, परूवणा सुत्तअत्थकहणा य। इह पुण अणब्भुवगमो, अहिगारो तीहि ओसन्नं ॥५०॥ | 'एएहिं'ति । एतैः' नैगमादिनयैः सप्रभेदैर्दृष्टिवादे सर्ववस्तूनां प्ररूपणा क्रियत इति वाक्यशेषः, सूत्रार्थकथना च । न दच वस्तूनां सूत्रार्थानतिलङ्घनात्समुच्चयोऽनर्थक इति शङ्कनीयं, सूत्रोपनिबद्धस्यैव सूत्रार्थत्वेन विवक्षणात् तद्व्यतिरेके-16 DESCRMACEUGUSDCOMSROS SMSCENESCOR WITTAMu For Private & Personal Use Only www.jainelibrary.org.
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy