________________
स्वोपज्ञवृतितः प्रथमो
॥ १३ ॥
विवहारणयस्साया कम्मं काउं फलं समणुहोइ । इय वेणइए कहणं, विसेसणे मा हु मिच्छत्तं ॥ ४८ ॥ 'ववहारणयस्स'ति । व्यवहारप्रधानो नयो व्यवहारनयस्तस्य मतेन आत्मा शुभमशुभं वा कर्म कृत्वा तस्य फलं भवान्तरे समनुभवति, अनुयायिद्रव्याभ्युपगमात् । 'इति' एतस्मात्कारणात् 'वैनयिके' मिथ्यादृष्टौ मिथ्यात्वापगमाय 'कथनं' सद्धर्मोपदेशः, तत्परिणतौ च मिथ्यात्वापगम इति मिथ्यात्वशोधकत्वात्रयोऽपि व्यवहारनयाः शुद्धाः । 'विसेसणे मा हु मिच्छत्त' मिति, विशेष्यते - परस्परं पर्यायजातं भिन्नतया व्यवस्थाप्यतेऽनेनेति विशेषणम् - ऋजुसूत्रादिनयस्तस्मिन् प्ररूप्यमाणे कृतविप्रणाशादिदोषाशङ्कातोऽधिकतरं मा जन्तवो मिथ्यात्वं यासुरिति न तन्मतानुसारेण वैनयिके सद्धर्म| देशनाप्रवृत्तिः, तदभावाच्च न मिथ्यात्वशुद्धिरिति न ते शुद्धाः ॥ ४८ ॥ व्यवहारस्य मिथ्यात्वविशोधकताया एव तन्त्राअन्तरोकं फलमाह -
इत्तो कालियसुत्ते, अपरीणामाइसीसहिअहेउं । ववहारस्सऽ हिगारो, भणियं आवस्सए जमिणं ॥ ४९ ॥ 'इत्तो 'ति । ' इतः ' नियमतो मिथ्यात्वविशोधकत्वादपरिणामादयो ये शिष्यास्तेषां हितहेतोः सूत्रे कालिक | उपलक्षणादुत्कालिकश्रुते च व्यवहारस्याधिकारः कृत आर्यरक्षितसूरिभिः । तथाहि त्रिविधाः शिष्याः - अपरिणामा अतिपरिणामाः परिणामाश्च । तत्र ये मन्दमतयोऽगीतार्था अपरिणतजिनवचन रहस्यास्तेऽपरिणामाः, अतिव्याप्तापवाददृष्टयोऽतिपरिणामाः, सम्यक्परिणतजिनवचना मध्यस्थवृत्तयः परिणामाः । तत्र येऽपरिणामास्ते नयानां य आत्मीय आ
Jain Education International
For Private & Personal Use Only
गुरुतत्वविनिश्चयः लासः
शिष्य त्रैवि
ध्यम.
॥ १३ ॥
www.jainelibrary.org