SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सिद्धिरिति भनवाप्यर्थाद्व्यवहार उपादीयत एव, सम्यग्दृष्टिनयद्वयस्य प्रधानोपसर्जनभावेनान्योऽन्यविषयसंवलित-1 स्वात् , अत्र संमतिमाह-यतो भणितमोघनिर्युक्तावेव ॥३६॥ णिच्छयमवलंबता, णिच्छयओ णिच्छयं अयाणंता। णासंति चरणकरणं, बाहिरकरणालसा केई ॥३७॥ I णिच्छय'मिति । 'निश्चय' निश्चयनयं 'अवलम्बमानाः' ग्राह्यत्वेन प्रतिजानानाः 'निश्चयतः' परमार्थतो निश्चयमजानानाः 'नाशयन्ति' श्रोतृणां हानबुद्धिविषयीकुर्वन्ति बाह्यकरणालसाः केचित् । निश्चयेन निश्चयज्ञाने तेषां बाह्यकरणालस्यमेव प्रतिबन्धकमिति न तद्विधेयम्, किन्तु व्यवहारोद्यतत्वमेव विधेयमिति भावः ॥ ३७॥ निश्चयतो निश्चयस्य |स्वरूपमाह जो णिच्छओ पवट्टइ, हेउसरूवाणुबंधपडिपुण्णो।सो णिच्छयओ णेओ, वायामित्तेण इअरो उ॥३८॥ | 'जो णिच्छओत्ति । यो निश्चयः प्रवर्त्तते हेतुस्वरूपानुबन्धप्रतिपूर्णः 'सः' निश्चयो निश्चयतो ज्ञेयः । इतरः' हेतुस्वरू- पानुबन्धविकलस्तु 'वाड्मात्रेण' निश्चयशब्दमात्रेण निश्चयाभास इति यावत् ॥ ३८ ॥ हेत्वादिस्वरूपमाहहेउ विसुद्धा किरिया, एगग्गालंबणं सरूवं तु।अणुबंधो इह णेओ, जगहियवित्ती समावत्ती ॥३९॥ _ 'हेउ'त्ति। हेतुरत्र निश्चये ज्ञप्तिरूपे प्रवृत्तिरूपे च 'विशुद्धा' शास्त्रानुसारिणी क्रिया, सद्व्यवहारविषयप्रतिक्षेपभ्रमजनकातालस्यदोषनिवर्तकत्वेनाशुभानेकालम्बननिवर्तकत्वेन च तस्यास्तद्धेतुत्वात् । स्वरूपं त्वेकामालम्बनम् , ज्ञप्तेर्भावमात्र विषय शुद्धनिश्चय खरूपम. For Private Jain Education International winery.org Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy