SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ वा विराहिज्ज वा खंडिजमाणं वा विराहिजमाणं वा बंभचेरगुत्तिं परेसिं समणुजाणिज्ज वा मणेण वा वायाए वा कारण वा से णं मिच्छद्दिट्टी, ण केवलं मिच्छदिट्ठी, अभिगहि अमिच्छदिट्ठी वि जाणिज "त्ति ॥ २६ ॥ यत एवं दुरनुचरत्वं संयमस्य ततस्तुलनापेक्षत्वमपि व्यवस्थितमित्याह — णो देसविरइकंडय - पत्तिं मुत्तूण होइ पवज्जा । तुलणावेक्खा तम्हा, इहि तु विसिस्स जं भणियं ॥ २७ ॥ 'णो देसविरइ'ति । देशविरतेः कण्डकानि - असङ्ख्यातविशुद्धिस्थानात्मकानि कण्डकशब्दस्य समयपरिभाषयाऽङ्गुलमात्रक्षेत्रासङ्ख्येय भागगत प्रदेशराशिप्रमाणसङ्ख्याभिधायकत्वात् तेषां प्राप्तिं मुक्त्वा प्रव्रज्या न भवति, क्रमस्यानुल्लङ्घयत्वात् तस्मात् तुलनापेक्षा प्रब्रज्या, प्रतिमाप्रतिपत्त्यादितुलनामपेक्ष्यैव प्रवर्त्तते, न त्वभ्यासाधीनपराक्रमलाभं विना । 'इदानीं तु' साम्प्रतकाले तु 'विशिष्य' नियमतो बहुशस्तुलनापेक्षा, यद्भणितं पञ्चाशके ॥ २७ ॥ जुत्तो पुण एस कमो, ओहेणं संपयं विसेसेणं । जम्हा विसमो कालो, दुरणुचरो संजमो इत्थ ॥२८॥ 'जुत्तो' त्ति । युक्तः पुनः 'एषः' प्रतिमाप्रतिपत्त्यनन्तरं प्रव्रज्यादानलक्षणः क्रमः 'ओघेन' सामान्यतः, 'साम्प्रतं ' पञ्चमारके पुनर्विशेषेण, यस्माद्विषमो धर्मशक्तिहान्या 'कालः' दुष्पमाकालः, 'दुरनुचरः' दुष्पालः 'अत्र' काले संयमः, प्रमादबाहु| ल्येनास्यैर्यदोषात्, तस्मादेतन्निरासेन स्यैर्यसिद्ध्यर्थमिदानीं संयमे नियमतोऽभ्यासरूपतुलनापेक्षत्वमिति । न चेदृशक्रमसङ्गतेदानीं प्रव्रज्या श्रूयत इति न तग्रहणं युक्तमिति गर्भार्थः ॥ २८ ॥ व्यवहर्तुदर्लभ्येनापि व्यवहारदौर्लभ्यमाह Jain Education International For Private & Personal Use Only: www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy