SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः प्रथमो 11 6 11 | इकं चिय अट्ठारससी लंगसहस्सलक्खणं चरणं । इक्कस्स वि विरहेणं, ण हवे अण्णुण्ण संवेहा ॥ २५ ॥ 'इक्कं चिय'त्ति । 'एकमेव ' एकरूपमेवाष्टादशशीला ङ्गसहस्रलक्षणं चरणम्, तत्स्वरूपं च " धर्मा १० म्यादी १०न्द्रिय ५ सञ्ज्ञाभ्यः ४ करणतश्च ३ योगाच्च ३ । शीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिः ॥ १ ॥” इति वाचकवचनादवसेयम् । तच्चैकस्यापि शीलाङ्गस्य विरहेण न भवेत्, सर्वेषां शीलाङ्गानामसङ्ख्येयजीव प्रदेशवत् 'अन्योन्यसंवेधात्' परस्परमजहद्वृत्तितया प्रतिबन्धादेकरूपस्य खण्डरूपत्वानुपपत्तेः, अत एवैकस्यापि सद्भावः शेषसद्भावनियत एव, तदुक्तं पञ्चाशके - " इक्कं पि सुपरिसुद्धं, सीलंगं सेससब्भावे ||" ति ॥ २५ ॥ यत एकस्यापि शीलाङ्गस्याभावे चारित्राभावस्तत एव भग्नशीलाङ्गस्य मिथ्यात्वाभिधानमुपपद्यते, सति चारित्रशेषे तदसम्भवादित्याह - इत्थमफासुअणीरं, सेवंतो तेउकाइयं तह य । गुत्तीउ विराहंतो, मिच्छदिट्ठी मुणी भणिओ ॥ २६ ॥ 'इत्थं 'ति । ' इत्थं' मनागप्याज्ञाभङ्गे चारित्रभङ्गोपपत्तौ सत्यामप्रासुकं नीरं तेजस्कायिकं च सेवमानः 'गुप्तीः' ब्रह्मच गुप्तीश्च विराधयन् 'मुनिः' द्रव्यलिङ्गी मिथ्यादृष्टिर्भणितः, तथा च महानिशीथसूत्रम् - " से भयवं ! कयरेणं लिंगेणं वियाणिज्जा जहा णं धुवमेस मिच्छदिट्ठी ! गोयमा ! जेणं कयसामाइए सबसंगविमुत्ते भवित्ता णं अफासुअं पाणं ॐ ॥ ७ ॥ परिभुंजिज्जा, जेणं अणगारधम्मं पडिवजित्ता णं सयमुईरिअं वा परोईरिअं वा तेउकायं सेविज्ज वा सेवाविज्ज वा तेउकायं सेविजमाणाणं अन्नेसिं समणुजाणेज्ज वा, तहा णवण्हं बंभचेरगुत्तीणं जे केइ साहू वा साहुणी वा एकमवि खंडिज्ज Jain Education International गुरुतत्वविनिश्चयः लासः. For Private & Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy