SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ खोपज्ञवृ- भरहो पसन्नचंदो, आहरणा णिप्फलम्मि ववहारे।इटविसओवणीयं, झाणं चिय सवकज्जकरं ॥२१॥ गुरुतत्त्वत्तियुतः 'भरहो'त्ति । निष्फले व्यवहारे भरतः प्रसन्नचन्द्रश्चाहरणे, भरतस्य व्यवहारं विनापि केवलज्ञानोत्पादेन फलं प्रति है। विनिश्चयः व्यतिरेकव्यभिचारात्, सत्यपि व्यवहारे कायोत्सर्गे रौद्रध्यानदशायां प्रसन्नचन्द्रस्य तदनुत्पादेनान्वयव्यभिचारात् । व्यवहारव्युतस्मात् 'इष्टविषयोपनीतं' योगसमाधानकारिमनोज्ञभोजनादि विषयोपढौकितं 'ध्यानमेव' आत्मतत्त्वप्रणिधानमेव सर्व- दासेन कार्यकरम् ॥ २१ ॥ प्रकारान्तरेण व्यवहारवैफल्यमाह निश्चयोप|णिच्छयलाभालाभे, ववहारारोवणं च भवाणं । तित्तजलपाणऊसरबीयारोवोवमं होइ ॥ २२ ॥ पादनम्. "णिच्छय'त्ति । निश्चयस्य-संयमयोग्यगुणस्थानलक्षणस्य लाभे सति भव्यानां प्रवित्रजिषूणां 'व्यवहारारोपणं' प्रव्रज्याविधानव्यवहाराधानं तृप्तस्य जलपानवन्निष्फलं, तदर्थस्य प्रागेव सिद्धेः। निश्चयालाभे च व्यवहारारोपणमूषरक्षेत्रे बीजारोपोपमं भवति, स्थानवैषम्यदोषेण ततः कार्यासिद्धेः अलब्धनिश्चयस्य गृहस्थवद्र्यवहारारोपास्थानत्वादिति ॥२२॥ अनिप्टानुबन्धेनापि व्यवहारं प्रतिक्षिपन्नाहहावयभंगे गुरुदोसो, भणिओ दुवारओ असोइहि। तो चरणपक्खवाओ, जुत्तो ण उ हंदि तग्गहणं ॥२३॥8॥६॥ | 'वयभंगे'त्ति । व्रतस्य-गृहीताचारस्य भङ्गे गुरुः-महान् दोषः-अनन्तसंसारानुबन्धलक्षणो भणितः, स च व्रतभङ्ग इदानीं दुःषमाकाले दुर्वारः प्रमादबाहुल्यात् , तस्माच्चारित्रस्य पक्षपात एव युक्तो न तु 'हन्दी' त्युपदर्शने तद्रहणमपि । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy