SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ स्वरस्थानीयपरमभावानुभवनशीलाश्च उपरितनैकवर्णिकास्थानीयशुद्धनयावलम्बितया 'शुद्धादेशाः' शुद्धद्रव्यादेशिनः । 'अपरमभावगतानां प्रथमद्वितीयाद्यनेकपाकपरम्परापच्यमानकातस्वरस्थानीयापरमभावानुभवनशीलतयाऽशुद्धद्रव्यादेशिनां 'व्यवहारः विचित्रवर्णमालिकास्थानीयो व्यवहारनयः 'नून' निश्चितं 'उपचारः तदात्वप्रयोजनवान् , तदुक्तम्"सुद्धो सुद्धादेसो, णायबो परमभावदरिसीहिं । ववहारदेसिदा पुण, जे उ अपरमे ठिआ भावे ॥१॥” इति । तथा चाभ्यासदशायां कथञ्चिद्व्यवहारः फलवान्न तु तत्त्वदशायामिति स्थितम् । तदुक्तम्-"जइ जिणमयं पवजह, ता मार ववहारणिच्छए मुअह । एक्केण विणु झिजइ, तित्थं अण्णेण उण तच्च ॥१॥"ति । किञ्च-"ब्राह्मणो न म्लेच्छितव्यः" इति वचनाद्ब्राह्मणः परमार्थतो म्लेच्छभाषां न भाषते, स्वभाषया प्रतिबोद्धमशक्यस्य म्लेच्छस्य बोधनाय तु भाषतेऽपि, तथा म्लेच्छभाषास्थानीयत्वेन तत्त्वप्रतिपादकत्वादुपन्यसनीयोऽपि व्यवहारः परमार्थतो नानुसतव्यः । कथमयं तत्त्वं प्रतिपादयति ? इति चेत् , इत्थम् यः श्रुतेन केवलमात्मानमवगच्छति स श्रुतकेवलीति परमार्थः। न चैतच्छुद्धं प्रतिपादयितुं शक्यत इति । यः श्रुतज्ञानं सर्वमवगच्छति स श्रुतकेवलीति भेदेन व्यवहार उपस्थापयति । तथा च ज्ञानमपि विचार्यमाणमात्मैवेति परमार्थ एव पर्यवस्यति, तदुक्तम्-"जह ण वि सक्रमणज्जो, अणजभासं विणा उ गाहेडं । तह ववहारेण विणा, परमत्थुवएसणमसक्कं ॥ १॥ जो हि सुएणऽहिगच्छइ, अप्पाणमिणं तु केवलं सुद्धं । तं सुअकेवलिमिसिणो, भणंति लोगप्पईवयरा ॥२॥ जो सुअनाणं सव्वं, जाणइ सुअकेवलिं तमाहु जिणा । नाणं आदा सव्वं, जम्हा सुअकेवली तम्हा ॥३॥" इति ॥२०॥ फलव्यभिचारेणापि व्यवहारं व्युदस्य निश्चयमुपपादयति h Main Education International For Private Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy