________________
स्वोपज्ञवृतियुतः
॥५॥
नणु आलंबणमित्तं, बज्झं ववहारसंमयं वत्थु । णिच्छयओ च्चिय सिद्धी, साहूण सुअम्मि जं भंणियं ॥ १८ ॥ परमरहस्समिसीणं, समत्तगणिपिडगझरिअसाराणं । परिणामियं पमाणं, णिच्छयमवलंबमाणाणं ॥ १९ ॥ बाह्यं व्यवहारसंमतं वस्तु 'आलम्बनमात्रं ' पटसामग्र्यामाकाशादिवदवर्जनीयसंनिधिकमात्रं न तूपादानवत्कारणमपि, अतिशयितस्योपादानस्यैव कार्याधानक्षमत्वात् । अतो निश्चयत एव साधूनां सिद्धिः, शुद्धनिश्चयेन वाह्यकारणा| धिक्यनिरासवच्छुद्ध तरनिश्चयेन वाह्यकारणमात्रस्यापि निरासाद्, आत्ममात्रप्रतिबद्ध कार्यकारणभावविचारसारतया बहि:| संकल्पविकल्पपरम्परानिवृत्तेरेकान्तस्थैर्यसिद्धेः । 'यत्' यस्मात् 'श्रुते' ओघनिर्युक्त्याख्ये भणितम् ॥ १८ ॥ 'परम'ति । परमं रहस्यं तत्त्वं ऋषीणां समग्रगणिपिटकस्य झरितः पठितः सारो यैस्तेषां 'पारिणामिकं' परिणामभवं प्रमाणं भवति निश्चयनयमवलम्बमानानाम्, यतः शब्दादिनिश्चयनयाः पारिणामिकमिच्छन्तीति ॥ १९ ॥ एतदेवोपपादयतिसुद्धो अ णिच्छयणओ सुद्धा एसा य परमभावगया । अपरमभावगयाणं, ववहारो नूणमुवयारो ॥ २० ॥
'सुद्धो अ'ति । शुद्धश्च निश्चयनयः कतकनिपातोपजनितपङ्कपयो विवेकस्थानीयस्वपुरुषकाराविर्भावित सहजैकाच्छभावमयात्मकर्म विवेकानुभव नशीलत्वात्, न तु प्रबलपङ्कसंवलनति रोहित सहजै काच्छ भावपयोऽनुभव स्थानीयात्मकर्माविवेकबीजभाववैश्वरूप्यानुभवनशीलव्यवहारनयवदशुद्धः, तदुक्तं समयसारे - "ववहारोऽभूयत्थो, भूयत्थो देसिओ दु सुद्धणओ । भूयत्थमासिओ खलु, सम्मद्दिट्ठी हवइ जीवो ॥ १ ॥ ति । 'परमभावगताश्च' पर्यन्तपाकोत्तीर्णजात्यकार्त्त
Jain Educational
For Private & Personal Use Only
गुरुतत्त्वविनिश्चयः
निश्चयोपपा
दनपूर्वकं
पूर्वपक्ष:.
निश्चयव्यव हारयोः शु
द्धत्वाशुद्ध
त्वदर्शनम्.
॥ ५ ॥
www.jainelibrary.org