________________
'तत्थ'त्ति । तत्र नियोगस्तावदेषः-यद्रव्यं भवति शुद्धभावस्य सम्बन्धि तत् 'तन्नामाकृतितुल्यं शुद्धभावनामस्थाप-I नासदृशं 'शुभं प्रणिधातृशुभभावजनकम् । 'इतरत्तु' अशुद्धभावसम्बन्धि द्रव्यं तु 'विपरीतम्' अशुद्धभावनामस्थापनावदशुभभावजनकम् ॥ १४ ॥ एतदेव भावयतिजह गोअमाइआणं, णामाई तिन्नि हुंति पावहरा । अंगारमदगस्त य, णामाई तिणि पावयरा ॥१५॥ __ 'जह'त्ति । यथा 'गौतमादीनां शुद्धभावगुरूणां नामादीनि त्रीण्यपि पापहराणि भवन्ति, शुद्धभावगुरुनामादीनां शुद्धभावगुरुस्थापनद्वारा शुद्धभावगुरुसम्बन्धित्वेन ज्ञातानां तेषां स्वातन्त्र्येणैव वा शुद्धभावजनकत्वात्, “महाफलं खलु तहारूवाणं थेराणं भगवंताणं णामगोत्तस्स वि सवणयाए" इत्याद्यागमातु । 'अङ्गारमर्दकस्य -अशुद्धभावगुरो मादीनि त्रीण्यपि पापकराणि पापतराणि वा शुद्धभावजनकत्वात्तेषाम् , अत एवेदं महानिशीथादौ प्रसिद्धम-"तीता णागतकाले, केई होहिंति गोयमा! सूरी । जेसिं णामग्गहणे, वि हुज्ज णियमेण पच्छित्तं ॥१॥" यद्यपि पञ्चाशकादावङ्गारमर्दकः शुद्धभावावधिकाप्राधान्यापेक्षया द्रव्याचार्य एवाभिधीयते तथाप्यत्राशुद्धभावापेक्षयाशुद्धभावगुरुत्वाभिधान न दोषायेति ध्येयम् । इत्थं च "जे ऊणवाससयदिक्खिए वि हुत्ता णं वायामित्तेणं पि आगमओ बाहिं करिति ते णामठवणाहिं णिओइयवे" इत्यत्रागमबाह्यकारिणो नामस्थापनाभ्यां नियोक्तव्यत्वेन द्रव्यत्वमुपदर्शितं भवति, द्रव्यत्वस्य नामस्थापनानियोगसमनियतत्वादागमबाह्यकारिणः सामान्यतो नामस्थापनातुल्यत्वतात्पर्ये नामस्थापनामात्रस्यानर्थक्य
शुद्धाशुद्धभावगुरूणां नामादीन्य. पि शुद्धाशुद्धभावकारणानि.
Jain Education International
For Private & Personal use only
www.jainelibrary.org