________________
स्वोपज्ञवृत्तियुतः
'बहुशः' बह्वीर्वाराः 'विवेचितम्' उपदेशपदपञ्चाशकादिग्रन्थानुसारेण विशिष्य निणीतमिति तत एवैतत्तत्त्वमवसेयं नेह | | गुरुतत्त्वभूयः प्रयासः ॥ ११॥ अत्रैवोपयुक्तं वक्तव्यशेषमाह
विनिश्चयः इम्हि पुण वत्तवं, ण णाममित्तेण होइ गुरुभत्ती। चउसु वि णिक्खेवेसुं, जं गेज्झो भावणिक्खेवो ॥१२॥ भावनिक्षेप। 'इण्हि'ति । इदानीं पुनर्वक्तव्यमेतद् यदुत न नाममात्रेण गुरुभक्तिर्भवति, 'यद्' यस्माच्चतुर्वपि निक्षेपेषु भावनिक्षेपो ग्राह्यत्वेन 'ग्राह्यः' स्वातयेणोपादेयः, अन्यथा हि स्वाभिप्रायाभिमतगुरुनामधारिणां सर्वेषामपि गुरुकुलवासप्रसक्तः, न चैतदिष्ट,
भावगुरोरेव धर्माधर्मसङ्करप्रसङ्गादिति ॥ १२॥ भावस्यैव ग्राह्यत्वे सिद्धान्तसम्मतिमुपदर्शयति
| ग्राह्यत्वम् . तित्थयरसमा भावायरिया भणिया महाणिसीहम्मि । णामठवणाहिँ दवायरिया अणिओइयवा उ १३ । | 'तित्थयर'त्ति । 'भावाचार्याः पञ्चविधाचारपालनतदुपदर्शनगुणान्वितास्तीर्थकरसमा महानिशीथे भणिताः, तथा च तदालाप:-"से भयवं! तित्थयरसंतियं आणं नाइक्कमिज्जा उदाहु आयरियसंतियं? गोयमा! चउबिहा आयरिआ पण्णत्ता, तं०-नामायरिया १ ठवणायरिया २ दबायरिया ३ भावायरिआ य ४। तत्थ णं जे ते भावायरिया ते तित्थयरसमा चेव दट्टवा, तेसिं संतियं आणं नाइक्कमिज"त्ति । गच्छाचारप्रकीर्णकेऽप्युक्तं-"तित्थयरसमो सूरी, सम्मं जो जिणमयं पयासेइ ।”त्ति । द्रव्याचार्याश्च नामस्थापनाभ्यां नियोक्तव्याः ॥ १३ ॥ नियोगमेव विवेचयतितत्थ णिओगो एसो, जं दवं होइ सुद्धभावस्स । तण्णामागिइतुल्लं, तं सुहमिअरं तु विवरीयं ॥ १४ ॥
For Private Personal Use Only