________________
च बाद्यानां पार्श्वस्थ निवादिवासनाविप्रलब्धत्वेन च जैनाभासानां बहूनां वैराग्यलिङ्गधारणोपलम्भात् । ज्ञानगर्भ तु तद्'वैराग्यं 'हन्दी'त्युपदर्शने गुरुपरतन्त्राणां भवेत् , गुरुपरतन्त्रताया एव ज्ञानलक्षणत्वात् "गुरुपारतंत नाणं" इति वचनात् , अतो ज्ञानगर्भवैराग्याधायकतयापि गुरुरेव गरीयानिति भावः ॥ ८॥ अम्हारिसा विमुक्खा, पंतीए पंडिआण पविसंति । अण्णं गुरुभत्तीए, किं विलसिअमब्भुअंइत्तो ? ॥९॥ | 'अम्हारिसा वित्ति । अस्मादृशा अपि मूर्खा यदिति गम्यं 'पण्डितानां' धर्मग्रन्थकरणपेशलमतीनां पतौ प्रविशन्ति, गुरुभक्तेरितोऽन्यत्किमद्भुतं विलसितम्?, पाषाणनर्तनानुकारः खल्वयं दुष्करानुष्ठानप्रकार इत्यचिन्त्यसामर्थ्यो गुरुरेव ॥९॥ सका विणेव सका, गुरुगुणगणकित्तणं करेउं जे। भत्तीइ पेलिआण वि, अण्णेसिं तत्थ का सत्ती ? ॥१०॥ | 'सका वित्ति । 'शका अपि' इन्द्रा अपि गुरुगुणगणकीर्तनं नैव कर्तुं शक्ताः, 'जे' इति पादपूरणार्थो निपातः, 'तत्र' गुरुगुणगणकीर्तने भक्तिप्रेरितानामप्यन्येषां मादृशमनुजानां का शक्तिः । तथा चानिर्वचनीयानन्तगुणगरिमभाजनं गुरुरिति कियन्तस्तद्गुणा वक्तुं शक्यन्ते?, श्रोतृप्रोत्साहनार्थ दिग्दर्शनमात्रं पुनरेतदिति भावः॥ १०॥ यत एवं तत आहइत्तो गुरुकुलवासो, पढमायारो णिदंसिओ समए। उवएसरहस्साइसु, एयं च विवेइअं बहुसो॥११॥ _ 'इत्तोत्ति । इतः' अनन्तगुणोपेतत्वाद्गुरोर्गुरुकुलवासः प्रथमाचारः 'समये' सिद्धान्ते निदर्शितः, आचारस्यादावेव "सुअं मे आउसंतेणं” इति सूत्रस्य निर्देशात् । एतच्च उपदेशरहस्यादिषु, आदिना यतिलक्षणसमुच्चयादिपरिग्रहः,
गुरुकुलवासः,
For Private & Personal use only