________________
S
त्तियुतः
स्वोपज्ञवृ-18 रत्नत्रयस्य' ज्ञानदर्शनचारित्रलक्षणस्य योगाद्गुरुरपि मोहान्धकारहरः सन्नात्मानं परं चोपादाननिमित्तभावेन दीपयति, गुरुतत्त्व तथा च भावदीपत्वेनाभ्यहिंततमो गुरुरिति भावः ॥५॥
विनिश्चय ॥२॥
जे किर पएसिपमुहा, पाविट्ठा दुट्टधिट्टनिल्लज्जा । गुरुहत्थालंबेणं, संपत्ता ते वि परमपयं ॥ ६॥ 18I 'जे किरत्ति। ये किल प्रदेशिनृपतिप्रमुखाः 'पापिष्ठाः' जीवास्तिक्याभावेनातिशयितपापाः, दुष्टाः-मोहदोषोपेतत्वात् ,
धृष्टाः-कुवासनास्तब्धतादोषात् , निर्लज्जाः-स्वतन्त्रतादोषात्, तेऽपि गुरोः-केशिगणधरादेहस्तालम्बेनोक्तदोषनिवृत्त्या , सुवासनाप्रवृत्त्या च परमपदं' पुण्यानुबन्धिपुण्यभोगोचितं स्थान प्राप्ता इति कृतपापानुबन्धहरत्वेन गुरुरेवाश्रयणीयः ॥६॥ |उज्झियघरवासाण वि, जं किर कट्ठस्स णत्थि साफल्लं । तं गुरुभत्तीए च्चिय, कोडिन्नाईण व हविजा ॥७॥ | 'उज्झिय'त्ति । उज्झितगृहवासानामपि चतुर्थादिकारिणां वालतपस्विनां यत्किल कष्टस्य नास्ति साफल्यं तद्गुरुभक्त्यैव 'कोडिन्यादीनां' गौतमगुरूपसम्पत्तिप्रभावप्राप्तकेवलज्ञानानां पञ्चदशशततापसानामिव भवेत्। अतः कष्टस्य साफल्यं गुरुभक्तिप्रयुक्तं तद्वैफल्यं चीतद्भावप्रयुक्तमित्यन्वयव्यतिरेकाभ्यां क्रियाफलहेतुभूतभक्तिकतया गुरुरेवादरणीय इति भावः॥७॥ दुहगब्भि मोहगन्भे, वेरग्गे संठिया जणा बहवे । गुरुपरतंताण हवे, हंदि तयं नाणगन्भं तु ॥८॥ 'दुह'त्ति । दुःखगर्भे मोहगर्भे च वैराग्ये बहवो जनाः संस्थिताः, आर्त्तध्यानपारवश्येन क्षणिकनैरात्म्यादिवासनायोगेन . 'दुर्वासना' 'दोषासना' इति वा पाठः । २ च तदभाव'-इत्यपि ।
ANSAREECRECARE
Jain Education International
ForPrivate LPersonal use Only