SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः ॥१॥ कायवाङ्मनोभिर्नत्वा, कं? पार्श्वजिनेन्द्रम् , किंभूतं? शङ्केश्वरसंस्थितम्, पुनः किंभूतं? 'महाभाग' निरुपमप्रभावम् । गुर अत्र च भगवतश्चत्वारो मूलातिशयाः सूचिताः, तथाहि-जिनेन्द्रपदेनापायापगमातिशयः सूचितः, जयन्ति रागादिशत्रु- विनिश्चयः निति जिनास्तेष्विन्द्र इति व्युत्पत्तेः, रागादिवैरिनिर्मुलनेनैव तत्त्वतोऽपायापगमसिद्धेः । शड्डेश्वरसंस्थितमित्यनेन पूजातिशयः, शङ्केश्वरावस्थितप्रभुप्रतिमायाः प्रत्यक्षत एव जगजनकृतपूजाप्रकर्षोपलम्भात् । अथवा जिनेन्द्रपदेनैव पूजातिशयः, जगत्पूज्यानामपि जिनानामिन्द्रत्वेन भगवतः परमपूज्यत्वव्यवस्थितेः । शङ्केश्वरसंस्थितमित्यनेन चापायापगमातिशयः, जरासिन्धुप्रयुक्तयादवजराकष्टप्रकरापहारकरणेनैव भगवत्प्रतिमायाः शङ्केश्वरपुरे व्यवस्थापनात् । महाभागविशेषणेन च ज्ञानवचनातिशयो, लोकालोकावलोकनक्षमकेवलालोकसर्वसन्देहसन्दोहनिराकरणक्षमतत्त्वप्रतिपादकवचनगुणाभ्यामेव निरुपमप्रभावत्वाभिधानात् । अथवा महाभागपदेनैवावृत्त्या चत्वारोऽतिशया लभ्यन्ते, तथाहिमशब्देन मान उच्यते "मो मन्त्रे मन्दिरे माने" इति वचनात् , तं सकलापायमूलभूतं हन्तीति महा, आभां-परमपूज्यतालक्षणां शोभां गच्छतीत्याभागः, ततो विशेषणसमास इत्यपायापगमपूजातिशयो लभ्येते । भानं भा-ज्ञानं, गश्च-वचनं, “गस्तु गातरि गन्धर्वे शब्दसङ्गीतयोरपि” इति वचनात्, महान्तौ भागौ यस्य स तथा तमिति ज्ञानवचनातिशयाविति । इत्थं चतुरतिशयोपेतस्य समुचितेष्टदेवतारूपस्य श्रीशङ्वेश्वरपार्श्वनाथस्य नमस्काररूपं मङ्गलमाचरितम् , ततश्च विघ्नध्वंसः शिष्टाचारश्चानुपालितो भवति । एतदुपनिबन्धाच्चानुषङ्गतःश्रोतृणामपि मङ्गलसिद्धिरिति ॥१॥ गुरुतत्त्वे विनिश्चेतव्ये गुरोरेव माहात्म्यमुपदर्शयति 'गुरुआणाए' इत्यादिना Jain Education international For Private & Personal use only wownw.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy