SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकृतिसाफल्यम् गुरुतत्तणिच्छओ पुण, एसो एक्काइगुणविहीणे वि।जा सुद्धमन्गकहणं, ताव ठिओ होइ दट्ठवो॥१५७॥ | 'गुरुतत्तत्ति । गुरुतत्त्वनिश्चयः पुनरेष एतावता महता प्रवन्धेन क्रियमाणः परीक्षणीये गुरावनन्तानसाधारणगुणानवगाहमानोऽपि कालादिवशादेकादिगुणविहीनेऽपि चण्डरुद्राचार्यादिन्यायेन कतिपयोत्तरगुणहीनेऽपि तिष्ठंश्चारित्रापेक्षया मूलगुणसत्तामपेक्षमाणोऽपि सम्यक्त्वपक्षापेक्षया यावच्छुद्धमार्गकथनं तावस्थितो द्रष्टव्यो भवति, उक्तश्चागमे|"ओसन्नो वि विहारे, कम्मं सोहेइ सुलहबोही य । चरणकरणं विसुद्धं, उवव्हतो परूवंतो॥१॥"त्ति । अत्र हि शुद्धमा प्ररूपणरूपगुरुलक्षणेनैव कर्मशोधनं सुलभवोधित्वं च प्रतिपादितम् , किञ्च-"जो जेण सुद्धधम्मम्मि ठाविओ संजएण गिहिणा वा । सो चेव तस्स जाणह, धम्मगुरू धम्मदाणाओ॥१॥” इत्यादिवचनामृहिणोऽपि यदि धर्मदानगुणेन धर्मगुरुत्वं प्रसिद्धं तदा संविग्नपाक्षिकाणामखिलधर्ममर्यादाप्रवर्तनप्रवणानामुचिततरमेव धर्मगुरुत्वमित्युच्चदृष्ट्या विचारणीयम् ॥ १५७॥ एतदेव समर्थयतिसंसारुद्धारकरो, जो भवजणाण सुद्धवयणेणं । णिस्संकियगुरुभावो, सो पुज्जो तिहुअणस्सा वि॥१५८॥ | 'संसारुद्धारकरोत्ति स्पष्टा ॥ १५८ ॥ तदेवं गुरुतत्त्वं विनिश्चित्यैतद्न्थफलमाहपवयणगाहाहिं फुडं, गुरुतत्तं णिच्छियं इमं सोउं। गुरुणो आणाइ सया, संजमजत्तं कुणह भवा!॥१५९॥ 'पवयणगाहाहिति । प्रवचनगाथाभिः क्वचित् सूत्रतोऽप्यर्थतश्च सर्वत्राभिन्नाभिरिदं गुरुतत्त्वं निश्चितं श्रुत्वा गुरोरा ग्रन्थफलम् Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy