SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्वविनिश्चय लासः अल्पबहुत्व द्वारम् स्वोपज्ञवृ- भक्त्वं श्रूयते, इह तु केवलानामेव कषायकुशीलानां तदुक्तम् , ततः पुलाकादिमानानि ततोऽतिरिच्यन्त इति कथन त्तियुतः विरोधः? उच्यते-करायकुशीलानां यत्कोटीसहस्रपृथक्त्वं तद् द्वित्रादिकोटीसहस्ररूपं कल्पयित्वा पुलाकबकुशादिसङ्ख्या चतुर्थो- तत्र प्रवेश्यते, ततः समस्तसंयतमानं यदुक्तं तन्नातिरिच्यते” इति ॥ १४९॥ उक्तं परिमाणद्वारम् । अथाल्पबहुत्वद्वारमाह हीणाहियत्तसंखा, अप्पबहुत्तं णियंठयपुलाया। हाया तिण्णि य थोवा, संखिज्जगुणा कमा तत्थ॥१५०॥ | ॥२१४॥ | 'हीणाहियत्तसंख'त्ति । हीनाधिकत्वसङ्ख्यं परस्परं भेदेष्वल्पबहुत्वमुच्यते । तत्र विचारणीये निर्ग्रन्थाः पुलाकाः स्नातकाः 'त्रयश्च' बकुशप्रतिसेवककषायकुशीलाः क्रमात् स्तोकाः सङ्ख्येयगुणाश्च । इयं भावना-सर्वस्तोका निर्ग्रन्थाः, तेषामुत्कर्षतोऽपि शतपृथक्त्वसङ्ख्यत्वात्; तेभ्यः पुलाकाः सङ्ख्येयगुणाः, सहस्रपृथक्त्वसङ्ख्यत्वात्; तेभ्यः स्नातकाः सङ्ख्येय-1 गुणाः, कोटीपृथक्त्वमानत्वात्; तेभ्यो बकुशाः सङ्ख्येयगुणाः, कोटीशतपृथक्त्वमानत्वात्। तेभ्यः प्रतिसेवनाकुशीलाः सङ्ख्येयगुणाः, तत्रोपपत्तिः सूत्र एव वक्ष्यते; तेभ्यः कषायकुशीलाः सङ्ख्येयगुणाः, तेषां कोटीसहस्रपृथक्त्वमानतयोक्तत्वादिति ॥ १५० ॥ ननु बकुशप्रतिसेवकयोः कोटीशतपृथक्त्वमानतयैवोक्तत्वात्कथं प्रतिसेवकानां बकुशेभ्यः सङ्ख्येयगुणत्वम् ? इत्याशङ्कायामाहबउसपडिसेवगाणं, आवाया जइ वि तुल्लया भाइ।कोडीण सयपुहृत्तं,तहवि विचित्तं ति णो दोसो॥१५१॥ 'बउस'त्ति । बकुशप्रतिसेवकानां 'आपातात्' यथाश्रुतार्थश्रवणमात्राद् यद्यपि तुल्यता भाति तथापि कोटीनां शतपृ. ASSALAMUALOR *S*HSXXSHILASSA ॥२१४। Jain Education International For Private & Personal use only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy