________________
चतुर्थो
स्पर्शना
स्वोपज्ञवृ-12 संखेजेसु भागेसु हुज्जा असंखेज्जेसु भागेसु हुजा सबलोए वा हुज"त्ति । चूर्णिकारस्त्वाह-“सङ्ख्येयभागादिषु सर्वेषु गुरुतत्त्वत्तियुतः भवति" इति ॥ १३८ ॥ समर्थितमवगाहनाद्वारम् । अथ स्पर्शनाद्वारमतिदिशन्नाह
विनिश्चयः
ल्लास: 18 एवं चेव य फुसणा,णवरि विसेसो उ खित्तफुसणाण।एगपएसं खित्तं,फुसणा पुण पासओ वि हवे॥१३९॥ ॥२१२॥ ‘एवं चेव यत्ति । ‘एवं चैव' क्षेत्रवदेव स्पर्शना, नवरं क्षेत्रस्पर्शनयोस्तु विशेषो वाच्यः, तत्र 'एकप्रदेशम्' अवगाह्यसमव्याप्तप्रदेशावच्छिन्नं नमःक्षेत्रम् । स्पर्शना पुनः पावतोऽपि भवेत् । संयोगमात्रं स्पर्शना, व्यास्याख्यः संयोगस्तु
द्वारम् क्षेत्रमिति फलितार्थः । अत एव वृत्तिद्वैविध्यसिद्धौ कात्स्न्यैकदेशविकल्पाभ्यामवयवावयव्यादिभेदाभेदसाधनं सम्मत्यादी व्यवस्थितमिति विचारणीयं प्रामाणिकैः ॥ १३९ ॥ उक्तं स्पर्शनाद्वारम् । अथ भावद्वारमाहभावो ओदइआई,चउरो तत्थ उ खओवसमिअम्मिाहाओ खाइअभावे,उवसमि खइए वणिग्गंथो१४० भावद्वारम् ___ 'भावो'त्ति । भवनं 'भावः' आत्मपरिणाम औदयिकादिः। 'तत्र' विचार्ये 'पुलाकादयः चत्वारः' पुलाकबकुशप्रतिसेव-13 ककषायकुशीलाःक्षायोपशमिके भावे भवन्ति । स्नातकःक्षायिकभावे। निर्ग्रन्थ औपशमिके क्षायिकेवा, तथा च प्रज्ञप्तिः"पुलाए णं भंते ! कतरम्मि भावे हुज्जा ? गोयमा ! खओवसमिए भावे हुजा, एवं जाव कसायकुसीले । णियंठे पुच्छा, गोयमा! उवसमिए वा खइए वा भावे हुजा । सिणाए पुच्छा, गोयमा ! खइए भावे हुज"त्ति ॥१४०॥ ननु पुलाकादीनां क्षायोपशमिकादेरेव भावस्य कथं निर्धारणम् , मनुष्यत्वादीनामौदयिकादीनामपि भावानां संभवात् , अत आह
MCGMCCORMCLREASCAMER
OSCILOSOS
Jain Education International
For Private & Personal use only
www.jainelibrary.org