SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ SUCES SASURESHEMALERICA वत्कालस्य प्राप्यमाणत्वात् । ‘इतरः' उत्कृष्टश्च कालः पूर्वाणां कोटी खलु देशोना, इदमेकत्वेन पुलाकादीनामेकत्वापेक्षया | भणितम् ॥ १३१ ॥ अथानेकत्वापेक्षयोच्यतेबउसाई सम्बद्धं, पुहुत्तओ तह पुलायणिग्गंथा । इक्कसमयं जहन्ना, इयरे अंतोमुहुत्तं तु ॥ १३२ ॥ | 8] 'बउसाइत्ति । 'पृथक्त्वतः' पृथक्त्वं-नानात्वं ततः-तदपेक्ष्येत्यर्थः, वकुशादयः 'सर्वाद्धं' सर्वकालं भवन्ति, प्रत्येकं 4 | तेषां बहुस्थितिकत्वात् । तथा पुलाकनिम्रन्थौ 'जघन्यौ' जघन्यकालौ एकसमयं भवतः । तत्र पृथक्त्वेन निर्ग्रन्थैकसमयभावना एकत्वपक्षवदेव, निर्ग्रन्थानामुपशान्तमोहे समसमयमेव समयानन्तरं मरणसम्भवात् । पुलाकानां पृथक्त्वेन जघन्यत एकसमयभावना चेयम्-एकस्य पुलाकस्य योऽन्तर्मुहर्तकालः तस्यान्त्यसमयेऽन्यः पुलाकत्वं प्रपन्न इत्येवं जघन्यत्वविवक्षायां द्वयोः पुलाकयोरेकत्र समये सद्भावः, द्वित्वे च जघन्यं पृथक्त्वं भवतीति । 'इतरौं' उत्कृष्टकालौ पुलाकनिग्रन्थौ 'अन्तर्मुहूर्त तु' अन्तर्मुहूर्तमेव भवतः । यद्यपि पुलाका उत्कर्षत एकदा सहस्रपृथक्त्वपरिमाणाः प्राप्यन्ते तथाsप्यन्तर्मुहूर्त्तत्वात्तदद्धाया बहुत्वेऽपि तेषामन्तर्मुहुर्तमेव तत्कालः, केवलं बहूनां स्थितौ यदन्तर्मुहूर्त तदेकपुलाकस्थित्यन्त-14 मुहूर्तान्महत्तरमित्यवसेयम् । निर्ग्रन्थेऽप्येवमेव भावनीयम् ॥ १३२ ॥ उक्तं कालद्वारम् । अथान्तरद्वारमाहपुणपत्तिमज्झकालो, अंतरमेअं तु होइ पंचण्हं । अंतमुहुत्त जहन्नं, उक्किट्ठमवड्ढपरिअट्टो ॥ १३३ ॥ 'पुणपत्ति'त्ति।पुनःप्राप्तिः-प्रतिपतितस्य सतोऽन्यो लाभस्तन्मध्यः कालोऽन्तरमुच्यते । एतत्पुनः ‘पञ्चानां' पुलाकवकुश - अन्तरद्वारा गुरुत.३६ For Private Personal use only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy