SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ CCC0MMSACROSMANA तया तदभावात , अत एव पुलाकस्यापि कपायकुशीलत्वप्राप्तिक्रमेण श्राद्धत्वभावेऽपि न तदुक्तिरिति वदन्ति । 'स्नातः' स्नातकः स्नातकत्वं त्यक्त्वा सिद्ध एव भवेत् , उक्तञ्च-"सिणाए पुच्छा, गोयमा! सिद्धिगई उवसंपज्जई"त्ति ॥ १२०॥ स्नातकत्वत्यागेन सिद्धत्वप्रात्यभिधाने चारित्रानुवृत्तिभवेन्न वा? इत्यत आहपहायत्तविगमओ च्चिय,णोचारित्तीय णोअचारित्ती। सिद्धो ण चरणमित्ताभावा इय विंतिआयरिया१२१ 'हायत्त'त्ति । 'स्नातकत्वविगमत एवं' अघातिकर्मनिर्जरणविशेषितचारित्रदेशविगमादसंयतत्वानुपसम्पत्तेश्च सिद्धो नोचारित्री नोअचारित्री भणितः, न तु चरणमात्राभावात् : असंयतत्वोपसम्पत्तिप्रसङ्गादिति ब्रुवत आचार्या हरिभद्रसूरयः। तदक्तं शास्त्रवार्तासमुच्चये-"चारित्रपरिणामस्य निवृत्तिनं च सर्वथा । सिद्ध उक्तो यतः शास्त्रे, न चारित्री न चेतरः। ॥” इति । मतान्तरे तु सिद्धानां निषिद्धमेव चारित्रम् , नोचारित्रित्वनोअचारित्रित्वाभिधानस्य नोभव्यत्वनोअभव्यत्वाद्यभिधानवदेवोपपत्तेरित्यधिक मेतद्वृत्तावेवोपपादितमस्माभिः॥१२१॥गतमुपसम्पद्धानद्वारम् । अथ सञ्ज्ञाद्वारमाह-18 सज्ञाद्वारम् सन्ना साभिस्संगं, चित्तं सण्णोवउत्तया णेव । हायणियंठपुलाया, तत्थपणे इंति दुविहा वि॥१२२॥ _ 'सन्नत्ति। सञ्ज्ञा ‘साभिष्वङ्ग नैरन्तर्यादराभ्यां सप्रतिवन्धं चित्तम् , आहारभयमैथुनपरिग्रहसज्ञाभेदम् , तदुक्तम्"सञ्ज्ञानं सज्ञा, मोहाभिव्यक्तं चैतन्यमित्यर्थः” इति । 'तत्र' सज्ञायां विचार्यायां स्नातकनिर्ग्रन्थपुलाका नैव सज्ञोप-18 युक्ताः, आहाराद्युपभोगेऽपि तत्रानभिष्वङ्गात् , आहाराद्यभिष्वङ्गवतामेव सज्ञोपयुक्तत्वात्। ननु निर्गन्धस्नातकावेवंभूतौ For Private LPersonal use Only www.jainelibrary.org Jain Education International
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy