________________
णिग्गंथो पंचण्हं, दोण्हं व उदीरगो विणिदिवो।दोण्हं चेव सिणाओ, उदीरणावजिओ व हवे ॥११॥ है 'णिग्गंथो'त्ति । 'निर्ग्रन्थः' उपशान्तमोहः 'पञ्चानाम्' आयुर्वेदनीयमोहनीयवर्जानां 'द्वयोर्वा' क्षीणमोहो नामगोत्रयो-14
रुदीरको विनिर्दिष्टो भगवद्भिः । स्नातकः 'द्वयोरेव' नामगोत्रयोरुदीरकः, आयुर्वेदनीये तु तस्य पूर्वोदीर्णे एव स्तः, उदीरजाणावर्जितो वा भवेदयोग्यवस्थायाम् ॥ ११६ ॥ गतमुदीरणाद्वारम् । अथोपसम्पद्धानद्वारमाहदाउवसंपया य जहणं, मिलिअंउवसंपजहणमिय सिद्धं। मिलिअंच इमं भणिअं, णिच्चाणिञ्चत्तसिद्धत्थं११७/उपसम्पद्ध
नद्वारम् ___ 'उवसंपया य'त्ति । उपसम्पद् नाम-अन्यरूपापत्तिः, सा च हानं च-स्वरूपपरित्याग इति 'मिलितं' समाहारद्वन्द्वमहिम्नेकीकृतम् उपसम्पद्धानमिति रूपं सिद्धम् । मिलितं चेदं भणितं वस्तुनो नित्यानित्यत्वसिद्ध्यर्थम् , उभयोः कथञ्चिदेकत्वस्य समाहारार्थत्वात् , प्रकृतवदन्यत्रापि वस्तुनोऽन्यरूपापत्त्या ध्रुवत्वात् दलस्यैवान्यरूपापत्तेः, अन्यथाऽतिप्रसङ्गात्, स्वरूपपरित्यागेन चाध्रुवत्वात् , स्वस्यैव कथञ्चिद्विचलितत्वात् , भिन्ननाशसम्बन्धायोगात्, नाशस्यापि निरुच्यमाणस्योत्पत्तिवत्कथञ्चिद्भिन्नत्वाभिन्नत्वाभ्यामेव पर्यवसानादिति दिक् ॥ ११७ ॥
चइऊण पुलायत्तं, तत्थ कसाई हवे अविरओ वा।वउसत्तचुओ वि तहा, पडिसेवी सावगोवा वि॥११८॥ 1 'चइऊण'त्ति । 'तत्र' उपसम्पद्धाने विचार्ये पुलाकत्वं त्यक्त्वा पुलाकः 'कषायी' कषायकुशीलो भवेत् संयतः सन् है. अविरतो वा' असंयतो वा । तत्र संयतस्य सतः पुलाकस्य कषायकुशील एव गमनम् , तत्सदृशसंयमस्थानसद्भावात् ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org