SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः चतुर्थी ॥ २०६ ॥ वेओ कम्माणुदओ, तत्थ य अडवेयगा उ चउरो वि । णिग्गंथो सत्तण्हं, चउण्ह पुण वेअगो पहाओ ११३ ॥ 'वे 'ति । वेदः कर्मणामुदयो विपाकानुभवनमिति यावत् । तत्र च विचार्यमाणे 'चत्वारोऽपि' पुलाकवकुशप्रतिसेवककषायकुशीला 'अष्टवेदकास्तु' नियमादष्टकर्मोदयवन्तः । निर्ग्रन्थः सप्तानां वेदकः, मोहनीयस्य क्षीणत्वादुपशान्तत्वाद्वा । स्नातकः पुनश्चतुर्णामघातिकर्मणां वेदकः ॥ ११३ ॥ उक्तं वेदद्वारम् । अथोदीरणद्वारमाहउदयावलिआखेवो, जत्तेणोदीरणं अपत्तस्स । तत्थ पुलाओ छण्हं, उदीरगो तहसहावाओ ॥ ११४ ॥ 'उदयावलिय'त्ति । 'अप्राप्तस्य' उदयावलिकानुपगतस्य कर्मणो यत्नेनोदयावलिकायां क्षेपः उदीरणम् । तत्र पुलाकः षण्णां प्रकृतीनामायुर्वेदनीयवर्णानामुदीरकः 'तथास्वाभाव्यात्' पण्णामेवोदीरणस्वाभाव्यात्; आयुर्वेदनीयप्रकृती खल्वयं नोदीरयति, तथाविधाध्यवसायाभावात्, किन्तु पूर्व ते उदीर्य पुलाकतां गच्छति । एवमुत्तरत्रापि यो याः प्रकृतीर्नोदीरयति स ताः पूर्वमुदीर्य बकुशादितां प्रामोतीति द्रष्टव्यम् ॥ ११४ ॥ अट्ठण्हं सत्तण्ह व बउसासेवी व छह पयडीणं । एवं चिय सकसाओ, उदीरगो वा वि पंच ॥ ११५ ॥ 'अट्ठण्हं'ति । बकुशासेविनावष्टानां कर्मप्रकृतीनामुदीरकौ, आयुर्वजनां सप्तानां वा वेदनीयवर्णानां षण्णां वा । 'सकषायः कषायकुशीलोऽपि 'एवमेव' बकुशासेविवदेवाष्टानां सप्तानां पण्णां वोदीरकः, वेद्यायुर्मोहनीयवर्जानां पञ्चानां वाऽप्युदीरकः ॥ ११५ ॥ Jain Education International For Private & Personal Use Only) गुरुतत्त्वविनिश्चयः ल्लासः उदीरणद्वा रम् ॥ २०६ ॥ www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy