SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ प्रबन्धद्वारमाह बन्धद्वारम् SANSAGAR नत्वमित्यर्थः, न तु स्थानान्तरजनिता उत्कृष्टसजातीयस्थानप्रवाहरूपा, यतो द्वयोरप्येकमेव स्थानं कालभेदेऽपि न स्थानभावेन वैचित्र्यभागिति । अथैकरूपत्वे तस्य फलोत्कर्षभेदोऽपि कथम्? इति चेदुच्यते-प्रयत्नविशेषरूपसहकारिवैचिव्यात् । अथैवं सहकार्यपेक्षाकृतमपि वैचित्र्यं तस्य दुरपह्नवमिति चेत्, न, ईदृशस्य परप्रत्ययवैचित्र्यस्य स्वरूपवैचिच्याप्रयोजकत्वादित्येतदधिकमध्यात्ममतपरीक्षावृत्तावुपपादितमस्माभिः ॥११०॥उक्तं परिणामद्वारम्।अथ बन्धद्वारमाहबंधो कम्मग्गहणं, तत्थ पुलायम्मि सत्त पयडीओ।बउसासेविसु अट्ट वि, सकसाओ छसगअडबंधी १११। 'बंधोत्ति । बन्धः कर्मणां ग्रहण-प्राथम्येनाऽऽदानम् । 'तत्र' वन्धेऽधिकृते पुलाके सप्त प्रकृतयो भवन्ति, अयं खल्वा युर्वर्जानि ज्ञानावरणीयादीनि सप्तैव कर्माणि बध्नाति न त्वायुः, तद्वन्धाध्ययसायस्थानानां तस्याभावादिति । बकुशासे-31 विनोरष्टावपि प्रकृतयो बन्धे भवन्ति, आयुर्बन्धस्यापि तयोः सम्भवात् । 'सकषायः' कषायकुशीलः षड्वन्धकः सप्त-13 बन्धकोऽष्टवन्धकश्च । तत्र सूक्ष्मसंपरायेऽप्रमत्तत्वेनायुर्वन्धाभावाद्वादरकपायोदयाभावेन च मोहनीयवन्धाभावात् षड्| बन्धकः, प्रमत्ततादशायां चायुरबन्धकाले सप्तबन्धकः, तद्वन्धकाले चाष्टबन्धक इति ॥ १११ ॥ है उवसंतखीणमोहो णिग्गंथो वेअणिजमेविकं । पहाओ उ सायवेजं, बंधइ बंधेण रहिओ वा ॥११२॥ 'उवसंतत्ति। उपशान्तमोहः क्षीणमोहो वा निर्ग्रन्थ एकमेव वेदनीयं कर्म बध्नाति, वन्धहेतुषु योगानामेव सद्भावात् । स्मात-18 वेदद्वारम कस्तु सातवेद्यं बध्नाति, बन्धेन रहितो वा, अयोग्यवस्थायां बन्धहेत्वभावादिति॥११२॥उक्तं बन्धद्वारम् । अथ वेदद्वारमाह in Estonia For Private & Personal use only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy