________________
मवस्थितो भावो जघन्यः, 'इतरः' उत्कृष्टावस्थितपरिणामः सप्त समयाः॥१०६॥ 'आदिमानां चतुर्णा' पुलाकबकुशप्रतिसेवनाकुशीलकषायकुशीलानां 'शेषो तु' वर्द्धमानहीयमानो भावी जघन्यतः समयमुत्कर्षतश्चान्तर्मुहूर्त्तम् । तत्र पुलाकस्य जघन्यत एकसमयस्थितिः प्रवर्द्धमानादिभावेऽपि कषायविशेषेण बाधिते तस्मिन् समयानन्तरमेव कपायकुशीलत्वादिगमनेन भवति । बकुशादीनां त्वेकसमयता मरणादपीष्टा, पुलाकस्य तु मरणं नास्ति, उक्तञ्च-"पुलाके तत्थ णो मरइ"त्ति । पुलाको हि कषायकुशीलत्वादिपरिणामप्राप्त्यनन्तरमेव म्रियते, यच्च प्राक् पुलाकस्य कालगमनमुक्तं तद्भूतभावापेक्षयेति । वृद्धिहानिपरिणामयोरुत्कर्षत आन्तर्मुहूर्त्तकत्वं च तथास्वाभाव्यात् । निर्ग्रन्थश्च 'द्विधाऽपि' जघन्यत उत्क-2 प्रतश्चेत्यर्थः, प्रवर्द्धमानो (अन्तर्मुहर्तम् ,) जघन्येनोत्कर्षेण च तस्यान्तर्मुहत्तमेव वर्द्धमानपरिणामस्य भावात् , केवलोत्पत्तौ परिणामान्तरस्य भावात् । घातिकर्मच्छेदव्यापाररूपो हि निर्ग्रन्थपरिणामः, तदुपरमात्मा च केवलिपरिणाम इति व्यापारस्थैर्यलक्षणोऽनयोर्भेद इति ॥ १०७॥
अंतमुहुत्तुक्कोसं, समयं च अवढिओ जहन्नेणं । अण्णे अवट्ठियमिमं, उकिट्ठ विंति सग समया ॥१०॥ II 'अंतमुहुत्तुक्कोसं'ति । उत्कर्षतोऽन्तर्मुहूर्त स्थितपरिणामानुवृत्तौ, जघन्येन च समयमेकं निर्ग्रन्थत्वप्राप्तिसमयानन्तरमेव || है मरणादवस्थितो निर्ग्रन्थः । अन्ये पुनराचार्याः 'इम' निर्ग्रन्थमुत्कृष्टमवस्थितं सप्त समयान् यावद् ब्रुवते, तदुक्तमुत्तरा
ध्ययनवृत्ती-"निर्ग्रन्था जघन्यत उत्कर्षतश्चान्तर्मुहर्त वर्द्धमाने परिणामे, अवस्थिते तु जघन्यत एक समयमुत्कृष्टेनागुरुत. ३५ 18न्तर्मुहूर्त्तम् , तथा चागमः-"णियंठे णं भंते! केवतियं वड्डमाणपरिणामे हुज्जा? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं
।
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org