________________
SANGALORG
RECORRECOLOCAUSAREL
कादौ तदभिधानं कषायकुशील एव च तदभिधानम् ? इति चेत् , अत्र केचित् पूर्वप्रतिपन्नः कषायकुशील एव गृह्यत इत्याहः, तदुक्तं भगवतीवृत्ती सकषायमेवाश्रित्य-"पुवपडिवन्नओ पुण अण्णयरीए उ लेस्साए" इत्युक्तमिति संभाव्यत इति । इदं पुनरिहावधेयम्-अशुद्धलेश्यासद्भावे चारित्रिणां प्रमत्तताविशेषस्तत्र न तु कषायकुशीलता, प्रेमद्वेषविशेषरूपत्वा|दप्रशस्तलेश्यानाम् , तदुक्तं पूज्यपादैः-"अविसुद्धभावलेसा, दुविहा णियमा उ होइ णायबा । पेज्जम्मि य दोसम्मि य"त्ति । तथा चान्यत्रापि कथं न तत्सम्भवः?, किञ्चान्यस्यापि दशाविशेष आर्तरोद्रध्यानसम्भवस्तावदिष्टः, तत्र चाप्रशस्तलेश्यानामेव सम्भव इति, अत एव षडशीतिके-"छसु सब"त्ति प्रतिकेनाविशेषतः षट्सु गुणस्थानकेषु लेश्याषट्सम्भव उक्तः, उपपत्तिश्चात्राभिहिता-इह लेश्यानां प्रत्येकमसङ्ख्येयानि लोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि, ततो मन्दाध्यवसायस्थानापेक्षया शुक्ललेश्यादीनामपि मिथ्यादृष्ट्यादौ कृष्णलेश्यादीनामपि प्रमत्तगुणस्थानकेऽपि सम्भवो न विरुध्यत इति । ततोऽन्यत्रापि प्रमत्तसंयते मन्दानुभावानि कृष्णाद्यध्यवसायानि प्राप्यन्तेऽत एव कृष्णलेश्या मनःपर्यवज्ञानेऽपि पठिता, तथा चागम:-"कण्हलेसा णं भंते! कइसु नाणेसु होजा? गोयमा! दोसु तिसु वा चउसु व"त्ति, एतच्च सूत्रं प्रम|त्ततायां कृष्णादिलेश्यासद्भावमभ्युपगम्योपपादितं वृत्तिकृतेति, ततः कषायकुशीले तथाविधकषायसहकारेण संसर्गिकृ
प्णादिद्रव्यजनिता कृष्णादिलेश्याकाररूपोत्कृष्टेति तद्विवक्षणम् , अन्यत्र तु तद्विपर्ययात्तदविवक्षणम् , सतोऽप्यर्थस्य कया-2 चियपेक्षया क्वचिदनभिधानात् , अत एव "परिहारविसुद्धिए जहा पुलाए"त्ति भगवतीसूत्रे परिहारविशुद्धिके पुलाकातिदेशेन लेश्यात्रयमुक्तम् । अन्यत्र पुनरेतस्य लेश्याद्वारे इत्थमुक्तम्-"लेसासु विसुद्धासुं पडिवज्जइ तीसु ण उण|
- ॐॐ
Jain Education International
For Private & Personal use only
www.jainelibrary.org