________________
स्वोपज्ञत्तियुतः चतुर्थी
॥ २०१ ॥
'सागाराणागारो 'ति । उपयुज्यत इति 'उपयोगः ' ग्रहणपरिणामः, स द्विविधः - साकारोऽनाकारश्च । तत्र विशेषग्रह - णाभिमुखः साकारः, सामान्यग्रहणाभिमुखश्चानाकारः । तत्र तौ द्वावप्युपयोगौ सर्वेषां निर्ग्रन्थानां भवतः, सर्वजीवानामुपयोगद्वयस्वाभाव्यात् । उक्तमुपयोगद्वारम् ॥ अथ कषायद्वारमाह- कपस्य- संसारस्यायः - लाभो येभ्यस्ते 'कषायाः ' क्रोधादयश्चत्वारः प्रसिद्धा एव । ते पुनश्चत्वारोऽपि 'आदित्रिके' पुलाकब कुशप्रतिसेवक लक्षणे भवन्ति ॥ ९८ ॥ सकसाए चउरो वा, तिण्णि दुवे वा वि इक्कओ लोहो । खीणुवसंतकसाओ, णिग्गंथो तक्खए पहाओ ॥९९
1
'सकसाएत्ति । ‘सकषाये' कपायकुशीले चत्वारो वा कषाया भवेयुर्यावदुपशमश्रेण्यां क्षपकश्रेण्यां वा नान्यतमविच्छेदः, सवलनक्रोधे पुनरुपशान्ते क्षीणे वा त्रयः, माने विगते द्वौ वा, मायायां तु विगतायां सूक्ष्मसम्परायगुणस्थानक एकक एव लोभः । निर्ग्रन्थः क्षीणकषायो वोपशान्तकषायो वा । स्नातकस्तु तेषां कषायाणां क्षय एव भवति ॥ ९९ ॥ उक्तं कषायद्वारम् । अथ लेश्याद्वारमाह
लेसा किण्हाईआ, अंततिए तत्थ होइ आइतियं । सकसाओ छसु सुक्का, नियंठि पहाए परम सुक्का॥ १००॥
'लेस’त्ति । लेश्या कृष्णादिका षड्विधा द्रव्यरूपा भावरूपा च । तत्र भावरूपा विशुद्धाऽविशुद्धा च । विशुद्धा कषायाणामुपशमात्क्षयाच्च जायमाना शुक्ला, क्षयोपशमाच्च तैजसपद्मशुक्लास्तिस्रः । अविशुद्धाश्च रागद्वेषमय्यस्तिस्रः कृष्णनीलकापोताख्या औदयिक्यः, एतन्निमित्तभूता च कर्मद्रव्यलेश्याऽपि षड्विधैव कृष्णादिकसञ्ज्ञा । तत्र शरीरनामकर्मद्रव्याण्येव कर्मद्रव्यले
For Private & Personal Use Only
Jain Education International
गुरुतत्त्वविनिश्चयः
ल्लासः
कपायद्वारम्
लेश्याद्वारम्
·
॥ २०१ ॥
www.jainelibrary.org