SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः चतुर्थी ॥ १९३ ॥ 54-% पढमस्स जहन्नेणं, तइयं आयारवत्थु णवमस्स । पुवस्सुकोसेणं, पुन्नाई नव त्तिपन्नत्ती ॥ ६६ ॥ ‘पढमस्स’त्ति। ‘प्रथमस्य’ पुलाकनिर्ग्रन्थस्य जघन्येन श्रुतमाचारवस्तु तृतीयं नवमस्य पूर्वस्य सम्बन्धि, उत्कर्षेण च पूर्णानि नवपूर्वाणीति प्रज्ञप्तिराह, तथा च तदालाप:-- “ पुलाए णं भंते ! केवइयं सुयं अहिज्जेज्जा ? गोयमा ! जहण्णेणं णवमपुत्रस्स त अमायारवत्युं उक्कोसेणं णवपुवाई अहिज्जेज्ज "त्ति ॥ ६६ ॥ | उक्कोसेण दस त्ति य, भणियं अण्णत्थिमस्स सुअनाणं । बउसकुसीलणियंठा, पवयणमाउसु जहन्नेणं ॥ ६७ 'उक्कोसेण'त्ति । उत्कर्षेण दश पूर्वाणीति भणितम् 'अन्यत्र' ग्रन्थान्तरे 'अस्य' पुलाकस्य श्रुतज्ञानम्, तथा चोक्तमु |त्तराध्ययनेषु - " दसपुबधरुक्कोसा, पडिसेव पुलाय वडसा यत्ति । एतद्विवरणेऽप्युक्तम्- “पुलागवउसपडिसेवणाकुसीला य उक्कोसेणं भिन्नदसपुबधर "त्ति । वकुशकुशीलनिर्ग्रन्थाः श्रुतमपेक्ष्य जघन्येन प्रवचनमातृषु भवन्ति, अष्टप्रवचनमातृपरिपालनरूपे चारित्रेऽष्टप्रवचनमातृज्ञानस्यावश्यमपेक्षितत्वेन तदर्थमष्टप्रवचनमातृप्रतिपादकश्रुतस्य जघन्यतोऽप्यपेक्षणीयत्वात् । एतच्च " अट्ठण्हं पवयणमाईणं" एतस्य यद्विवरणसूत्रं तदवसीयते । यत्पुनरुत्तराध्ययनेषु प्रवचनमातृनामकमध्ययनं तद्गुरुत्वाद्विशिष्टतर श्रुतत्वाच्च न जघन्यतः संभवति । बाहुल्याश्रयं चेदं श्रुतप्रमाणम्, तेन न माषतुषादिभिर्व्यभिचार:, तेषां गुरुपारतन्त्र्यमात्रस्यैव ज्ञानत्वाभिधानादिति वृद्धसम्प्रदायः ॥ ६७ ॥ | वउसपडि सेवगाणं, पुवाई दसेव हुंति उक्कोसं । णिग्गंथकसाईणं, चउदस पहाओ सुआईओ ॥ ६८ ॥ Jain Education International For Private & Personal Use Only गुरुतत्त्वविनिश्वयः लासः ॥ १९३ ॥ nelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy