SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ गुरुल, ३३ Jain Educatio यसंवृतस्य वकुशादेर्धर्म्यध्यानोपगतस्य निरस्तसमस्तसङ्कल्पविकल्पस्य चिन्मात्रविश्रान्तप्रतिबन्धस्यान्यप्रतिसेवानुपलब्धेः । तथा मूलगुणासेवनेऽपि पुलाकादीनामेवं चरणं सूत्राज्ञां परिगृह्य स्वभावसिद्धं ज्ञेयम्, तद्दशायामपि तेषां चारित्रपातप्रतिबन्धकसंयमस्थानसत्त्वात् । क्वचिदेवमन्यथाभावदर्शनेऽपि मूलगुणभङ्गे चारित्रभङ्गनियमस्य सार्वत्रिकस्याविरोधात्पराभियोगादिना वा मूलगुणभङ्गेऽपि तेषां चारित्राक्षतिः, सूत्रप्रामाण्यात् तथाविधसंयमस्थानानुरोधेन तथाविधचारित्रपरिणतेरविरोधात्, तदुक्तमुत्तराध्ययनवृत्तौ - "अत्र च यत् पुलाकादीनां मूलोत्तरगुणविराधकत्वेऽपि निर्ग्रन्थत्वमुक्तं तत् जघन्यजघन्यतरोत्कृष्टोत्कृष्टतरादिभेदतः संयमस्थानानामसङ्ख्यतया तदात्मकतया च चारित्रपरिणतेरिति भावनीयम्" इति ॥ ६४ ॥ उक्तं प्रतिसेवनाद्वारम् । अथ ज्ञानद्वारमाह नाणं मइनाणाई, तत्थ पुलाओ अ वउससेवी य। दुसु तिसु व केवली खलु, पहाओ सेसा चउसु भज्जा ६५ 'नाणं ति' । ज्ञायतेऽनेन वस्त्विति ज्ञानं मतिज्ञानादि पञ्चविधम् । तत्र पुलाकः 'बकुशासेविनौ च' वकुशप्रतिसेवनाकुशीलौ चेत्येते 'द्वयोः मतिज्ञानश्रुतज्ञानयोः 'त्रिषु वा' मतिश्रुतावधिज्ञानेषु भवन्ति । 'स्नातः' स्नातकः खलु 'केवली' केवलज्ञान एकस्मिन्नैव भवति । 'शेष' कपायकुशीलनिर्ग्रन्थौ चतुर्षु ज्ञानेषु भाज्यौ, तथाहि - तौ द्वयोस्त्रिषु चतुर्षु वा भवतः, द्वयोर्भवन्तौ मतिश्रुतयोः, त्रिषु भवन्तौ मतिश्रुतावधिषु, अथवा मतिश्रुतमनः पर्यायेषु चतुर्षु भवन्तौ च मतिश्रुतावधिमनः पर्यायेषु द्रष्टव्याविति ॥ ६५ ॥ ज्ञानप्रस्तावाज्ज्ञानविशेषं श्रुतं विशेषेण चिन्तयन्नाह - alonal For Private & Personal Use Only) ज्ञानद्वारम् www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy