________________
RECORAKASHARA
प्रतिसेवकत्वसम्भवात् ॥ ५९॥
कह तस्सासवलत्तं, णेवं पडिसेवगा य कह णिचं । हुंति पुलागाईआ, ते सुद्धा किंण कइया वि?॥६० ॥ है कहत्ति। कथं च तस्य' कषायकुशीलस्य एवम्'अप्रतिसेवकत्वेऽभ्युपगम्यमानेऽशवलवत्त्वं न स्यात् ? तदेव स्यादित्यर्थः,
कथं च नित्यं प्रतिसेवकाः पुलाकादयो भणिताः? किं न कदापि ध्यानादिदशायामपि ते शुद्धा न भवन्ति ?, न तावदित्थमिष्टम् , ध्यानादिदशायां शुद्धत्वस्याभ्युपगमात् जिनकल्पादीनामतिचारत्यागस्य तत्र तत्र प्रदर्शितत्वाच्चः तथा च तेषामप्रतिसेवकत्वनिषेधो न युज्यते किन्तु भजनाप्रतिपादनमेव युज्यत इत्यर्थः ॥ ६० ॥
मूलगुणासेवित्ते कह वा चरणस्स होइ सदहणं । तिसु सबलो मूलगुणे भणिओ तुरिए अणायारी॥६१ME PI 'मूलगुणासेवित्तेत्ति । मूलगुणासेवित्वे कथं वा पुलाकानां चरणस्य सतः श्रद्धानं भवति ?, यतो मूलगुणे 'त्रिषु अति-2
क्रमव्यतिक्रमातिचारेवापद्यमानेषु शबलो भणितः, 'तुरीये' चानाचारे आपद्यमानेऽनाचारी भणितः, तदाह दशाचूर्णिकृत्-"मूलगुणेसु आइमेसु तिसु भंगेसु सबलो भवइ, चउत्थभंगे सबभंगो, तत्थ अचरित्ती चेव भवइ । उत्तरगुणेसु चउसु वि ठाणेसु सबलो"त्ति । तथा दृतिशकटादिदृष्टान्तैरपि मूलगुणभङ्गस्य तत्कालमेव चारित्रनाशकत्वमुक्तम् , तथा तुर्यव्रतभङ्गे सर्वत्रतभङ्गः सर्वैरपि प्रतिपन्नः, इष्यते चान्यतराश्रवसेवित्वं पुलाकप्रतिसेवकयोरिति कथं तस्य चारित्रम् समाधानम इति ॥ ६१॥ समाधित्सुराह
Main Elohemia
For Private & Personal use only
www.jainelibrary.org