SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ वेओ'त्ति । 'वेदः' स्त्रीवेदादिस्त्रिविधः-स्त्रीवेदः पुरुषवेदो नपुंसकवेदश्चेति । तत्र पुरुषरमणाभिलाषः स्त्रीवेदः, स्त्रीरम-18| राणाभिलापः पुरुषवेदः, उभयाभिलाषश्च नपुंसकवेद इति । तत्र पुलाकस्तु 'तु:' एवकारार्थों भिन्नक्रमश्च स्त्रीवर्ज एव, स्त्रीवेदः खल्वसौ न भवति, तत्र तथाविधलब्धेरभावात् । पुरुषवेदे नपुंसकवेदे च भवति । नपुंसकवेदस्त्वसौ स ज्ञेयो यः पुरुषः सन्नपुंसकवेदो वर्द्धितकत्वादिना भवति न तु स्वरूपेण, अत एव-"पुरिसणपुंसकवेयए वा होज"त्ति सूत्रम् । पुरुषः सन् यो नपुंसकवेदको न स्वरूपेणेत्येतदर्थः । बकुशादिष्वपि नपुंसकवेदकत्वमित्वमेव भावनीयम् । 'बकुशप्रतिसे वको' बकुशप्रतिसेवनाकुशीलौ पुनः सर्वेष्वपि वेदेषु भवतः । पुलाकबकुशप्रतिसेवनाकुशीला अवेदकास्तु न भवन्ति, त तेषामुपशमक्षपकश्रेण्योरभावादिति द्रष्टव्यम् ॥ ४८ ॥ सकसाओ अतिवेओ, भणिओ उपसंतखीणवेओ वा।उवसंतखीणवेओ, णिग्गंथो तक्वएण्हाओ॥४९॥2 _ 'सकसाओं त्ति । 'सकषायश्च' कषायकुशीलश्च त्रिवेदो भणितः प्रमत्ताप्रमत्तापूर्वकरणगुणस्थानानि यावत् । अनिवृ-12 त्तिबादरे सूक्ष्मसम्पराये च उपशान्तेषु वेदेषु उपशान्तवेदः, क्षीणेषु च तेषु क्षीणवेदो वा । निर्ग्रन्थस्तु न सवेदो भवति किन्तूपशान्तवेदः क्षीणवेदो वा, श्रेणिद्वयेऽपि तस्य भावात् । स्नातः' स्नातकः 'तत्क्षये' वेदक्षये क्षीणवेद एवेत्यर्थः ॥४९॥ उक्त वेदद्वारम् । अथ रागद्वारमाह| रागो कसायउदओ, पुलायवउसा कुसीलभेआ ।तत्थ सरागा णिग्गंथण्हायगा हुंति गयरागा॥५०॥ रागद्वारम् Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy