________________
NamAHARMA
लोचना गवेषणा, तथा सञ्ज्ञानं सन्ज्ञा-व्यञ्जनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः, स्मरणं स्मृतिः-पूर्वानुभूतार्थाल-81 म्बनप्रत्यय इति,मननं मतिः-कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिरिति । तथा प्रज्ञानं प्रज्ञा-विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा मतिरित्यर्थः, सर्वमिदमाभिनिवोधिक मतिज्ञानमित्यर्थः। एवं किञ्चिद्धेदाभेदः प्रदर्शितः, तत्त्वतस्तु मतिवाचकाः सर्व एवैते पर्यायशब्दा इति॥"अत्र हि तत्त्वतस्त्वित्यनेन सामान्यविशेषसाधा
रण्येन पर्यायाभिधानमुक्तम् , समानप्रवृत्तिनिमित्तकनानाशब्दानां पर्यायत्वादिति । तथा स्नातकनिरूपणस्थलेऽपि प्रकृते, है अर्थात् स्नातकतत्त्वं सयोग्ययोगिभावेन तद्भेदं चाभिधायाऽच्छवित्वादिभेदाभिधानं तत्पर्यायप्रदर्शनपरमित्यर्थः। ननु पर्यासायाभिधानमपि किमर्थम् ? इत्यत आह-'यत्' यस्माद् व्याख्या तत्त्वभेदपर्यायतस्त्रिविधा, ततः पर्यायव्याख्याऽपि सम्प्र
दायानरोधाद युक्तिमतीति भावः । अत्र तश्चमसाधारणो धर्मः, तद्व्याख्यानभितरभेदगमकतयोपयुज्यते; भेदाश्च तत्त्वसाक्षाव्याप्यधर्मवन्तः, तद्व्याख्यानं न्यूनाधिकसङ्ख्याव्यवच्छेदार्थमुपयुज्यते; पर्यायाश्च तत्त्वभेदवाचकनानाशब्दाः, तव्याख्यानं
तत्र तत्र व्युत्पत्तिव्यवहारसौलभ्यार्थमुपयुज्यते; तदुक्तं 'ईहा' इत्यादिगाथापातनिकायामावश्यकवृत्ती-"तत्त्वभेदपर्यायैजाख्येति न्यायात्तत्त्वतो भेदतश्च मतिज्ञानस्वरूपमभिधायेदानी नानादेशजविनेयगणसुखप्रतिपत्तये तत्पर्यायशब्दानभिधित्सुराह"इति ॥ ४६॥
इत्थं चात्र शब्दनयः साम्प्रताख्य एवं पर्यवसितो न तु समभिरूढः, तेन पर्यायशब्दामभ्युपगमात् , शब्दभेदेनार्थभेदाभ्युपगमः खलु तदर्थ इति न चैतन्मतेऽपरिश्राविभेदसङ्गतिरपि, तुल्यप्रवृत्तिनिमित्तकतयोपस्थितानामेवार्थभेदस्यानेनाभ्युप
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org