SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ साहूणमिणमकिच्चं इय जागंतो वि कुणइ आभोगे । अमुतोऽणाभोगे, संवुड मूलुत्तरगुणेसु ॥२६॥ 'साहूणं'ति । साधूनामेतदकृत्यमिति जानन्नपि यः करोति दोपं स आभोगे वकुशः । 'अमुणंतो'त्ति, अकृत्यमेतदित्यप्रतिसंदधानो यो दोषं करोति सोऽनाभोगे वकुशः । 'संवुड' त्ति, विभक्तिलोपः प्राकृतत्वात्, मूलोत्तरगुणयोः स्वप्रतिज्ञातयोः 'संवृतः ' निरुद्धविपर्यस्तप्रवृत्तिः सन् वाकुशिकसंयमस्थानयोगात् संवृतो बकुशः ॥ २६ ॥ विवरीओऽसंबुडओ, अहवा इह संवुडोऽपथडदोसो । पयडो असंवुडो अह सुमो नयणाइमजणओ ॥२७॥ 'विवरीओ'ति । विपरीतो मूलोत्तरगुणयोः 'असंवृतकः' असंवृतवकुशः । प्रकारान्तरमाह - अथवा 'इह' लोके 'अप्रकटदोषः' अविदितापराधः संवृतः, 'प्रकटः' लोकविदितदोषोऽसंवृतः अस्ति च दोषप्राकव्याप्राकट्ययोः सापेक्षनिरपेक्षपरिणामाभ्यां भेदः । व्याख्याद्वैविध्यं चेदं भगवतीवृत्तौ व्यवस्थितमित्यस्माभिरप्येवमुक्तम् । क्वचित्तु मूलोत्तरगुणैर्युक्तः संवृत इत्यस्यैव लोकेऽविज्ञातदोषः संवृत्तत्रकुश इति व्याख्यानं दृश्यते । नयनादीनां - लोचनवदनादीनां मज्जनात् प्रक्षालनादक्षिमलाद्यपनयनाद् यथासूक्ष्मवकुशः ॥ २७ ॥ कृता बकुशप्रज्ञापना । अथ कुशीलप्रज्ञापनामाह सीलं चरणं तं जस्स कुच्छिअं सो हवे इह कुसीलो । पडिसेवणाकसाए, सो दुविहो होइ णायवो ॥ २८ ॥ 'सीलं'ति। शीलं चरणं तद् यस्य कुत्सितं भवेत् स इह कुशील उच्यते, स प्रतिसेवनाकषाययोः एकवचनं समाहारद्वन्द्ववशात् द्विविधो भवति ज्ञातव्यः, प्रतिसेवनाकुशीलः कषायकुशीलश्चेति द्विविधः कुशील इत्यर्थः । तत्र सम्यगाराधना Jain Education International For Private & Personal Use Only: उत्तरभेदविवेचनम् कुशीलः तद्वैविध्यं च www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy