________________
स्वोपज्ञवृतियुतः चतुर्थी
॥ १८३ ॥
स्थानीया 'कर्मदोषकृता' निरुपक्रमतथाविधचारित्रमोहनीय कर्मवैगुण्यजनिता न तूत्कटभावजनिता, तस्य संज्वलनातिरिक्तकषायोदयाभावात्; अतो न करोति चारित्रविघातम्, मन्दभावकृतत्वात् । किञ्च 'विपक्षभावेन' प्रतिसेवनीयगतप्रति सेवाप्रतिकूलपरिणामेन तत्तत्प्रायश्चित्तापत्तिकरणपरिणामेन च प्रतिबद्धा, अतोऽपि न करोति चरणविघातम्, मन्त्रशक्तिप्रतिबद्धमिव विषं प्राणि (ण) विघातमिति ज्ञेयम् ॥ २३ ॥ निगमयति
णिधसो ण तम्हा, वउसो साहू फुडं अणायारी । वउसो पुण दुविअप्पो, जुजइ जोगम्मि थिरभावो ॥ २४॥
'णिर्द्धधसो 'ति । 'तस्मात्' भावविशेषेण निरन्तरोत्तरगुणसेवायाश्चारित्राविघातकत्वात् 'निद्धन्धसः' प्रवचनोपघातनिरपेक्षप्रतिसेवाकारी न बकुशः साधुः, किन्तु स्फुटमनाचारी, चारित्रपालनानुकूल भावलेशस्याप्यभावादना चारप्रवृत्तत्वाच्च । 'बकुशः' वकुशनिर्ग्रन्थः पुनः 'योगे' स्वाङ्गीकृतमार्गे 'स्थिरभावः' दृढभग्नानुसन्धान परिणामः 'द्विविकल्पः' उपकरणशरीराभ्यां द्विभेदो युज्यते । ननु यद्येवं द्विविधोऽप्ययं वकुशो निर्मन्थस्तदा कथं शास्त्रेऽकालवस्त्रधावनादिना बाकुशिकत्वमसङ्गो दूषणमुच्यते ? सत्यम्, बाकुशिकापकृष्टस्थाने प्राप्ते दोषस्याभिधानात् ॥ २४॥ द्वयोरप्यनयोः प्रत्येकं भेदानाहदुविहो वि हु पत्तेयं, पंचविहो होइ सो पुणो वउसो । आभोगमणाभोगे, संबुडय असंबुडे सुहुमे ॥२५॥ 'दुविहो वि हु'ति । स पुनर्वकुशो द्विविधोऽप्युपकरणशरीरभेदात् प्रत्येकमुपकरणे शरीरे च पञ्चविधो भवति - आभोगवकुशोऽना भोगवकुशः संवृतवकुशोऽसंवृतवकुशी यथासूक्ष्मवकुशचेति ॥ २५ ॥ एतानेव विवेचयति
Jain Education international
For Private & Personal Use Only:
गुरुतत्त्वविनिश्वयः
लासः
निगमनम्
उपकरणश
रीरवकुशी
उत्तरभेदाः
॥ १८३ ॥
www.jainelibrary.org