________________
अथ प्रशस्तिः ।
प्रशस्तिः
यस्यासन गुरवोऽत्र जीतविजयप्राज्ञाः प्रकृष्टाशयाः, भ्राजन्ते सनया नयादिविजयप्राज्ञाश्च विद्याप्रदाः । प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरस्तस्येयं गुरुतत्त्वनिश्चयकृतिः स्तात् पण्डितप्रीतये ॥१॥ कुर्वन्ति कवयो ग्रन्थं, यशः सन्तो वितन्वते । रत्नानि रोहणः सूते, परीक्षन्ते परीक्षकाः ॥२॥ निपुणो गुरुकुलवासः, कुगुरुत्यागोऽपि यत्र निपुणतरः । सा पारमेश्वरी गीनिपुणधियां गोचरा जयति ॥३॥
Main Education international
ForPrivate LPersonal use Only
www.jainelibrary.org