________________
ACCASSACROCOM
यादित्याशङ्का निराकर्तुमाह
अववाएण य दोसो, ण णिग्गुणाणं पि वंदणे होइ । गुरुलाघवचिंताए, एवं दाणाइसु वि णेयं ॥८६॥ | 'अववाएण यत्ति । अपवादेन च निर्गुणानां वन्दनेऽपि गुरुलाघवचिन्तायां न दोषः, तस्या एव दोषप्रतिबन्धकत्वात् ।। एवं दानादिष्वपि ज्ञेयम् , तथाहि-पार्श्वस्थादीनामाहारदानादानयोरशिवादिकारणे पुष्टालम्बनप्रवृत्त्या न दोषः, तदुक्तम् -“असिवे ओमोयरिए, रायदुढे भए व गेलन्ने । अद्धाणरोहए वा दिज्जा अवा पडिच्छिज्जा ॥१॥" एवं तेषां वस्त्रा-18 दिदानादानयोरपि पुष्टालम्बने न दोषः, तदुक्तम्-"इमो अववाओ, गिही अन्नतिथिओ वा सेहो पवइउकामो तदिज्जइ जत्थ सुलभं वत्थं तत्थ वि विसए अंतरा वा असिवादि हुज्जा, एवमादिकारणेहिं तं विसयमगच्छंतो इह अलभंतो पासस्थाइवत्थं गिहिज्जा दिज्जा वा तेसिं, अद्धाणे वा वच्चंता मुसिआ अन्नतो अलभंता पासत्थाइवत्थं गिहिज्जा, हिमदेसे वा सीताभिभूआ पाडिहारिअं गिण्हिज्जा, गिलाणस्स वा अत्थुरणादि गिव्हिज्जा, एवमाइ।” तथा कारणे वसत्यादिदानेऽपि न दोषः, यतः कारणेऽसाम्भोगिका अपि पार्श्वस्थाः प्रवचने साम्भोगिका उच्यन्ते । साम्भोगिकानां च वसतिमध्ये विद्यमानं यो न ददाति तस्य चतुर्लघ, अग्यादिना वसत्युपद्रवात् श्वापदादिभयाद्वा शैक्षग्लानाद्यर्थ वाऽध्वप्रपन्ना वा य आगतास्तेषां विद्यमानस्थानादाने चतुर्गुरु प्रायश्चित्तम् । सम्भोगसाधर्मिकवात्सल्यप्रवचनव्युच्छित्तिश्चेति जीतवृत्तावुक्तम् । तथा कारणे पार्श्वस्थादिवाचनादानादानयोरपि न दोषः, यतः पावस्थादिः संविग्नविहारमभ्युपगतोऽभ्युपगन्तुकामो वा वाच्यते । तथाऽन्यत्रालाभे सिद्धान्ताव्युच्छित्त्यर्थं पार्श्वस्थादिभ्योऽपि वाचना गृह्यत इत्यादि ॥८६॥
JainEducation international
For Private & Personal Use Only