SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ भवति । अयं भावः-पुद्गलद्रव्यत्वेन जिनभिन्नतयोपस्थितायां जिनप्रतिमायां तदभेदाध्यारोपस्तावन्न स्वारसिकः, किन्ति च्छाधीनतयाऽऽहार्यः, इच्छा च किञ्चिद्गुणसादृश्यवति विषय एव संभवत्यविषयेऽध्यारोपस्यानिष्टसाधनत्वप्रदर्शनात, ततः प्रतिमायां जिनगुणाध्यारोपो युक्तो न तु कूटलिङ्गे साधुगुणाध्यारोप इति ॥ ८१॥ अपि च लिङ्गे स्थापनानिक्षेपो|ऽपि न प्रवर्त्तते कुतस्तरां शुभसङ्कल्पः? इत्याहपण य ठवणा वि पवट्टइ, तज्जातीए तहा सदोसे य। उववाइयं च एयं, सम्मं भासारहस्सम्मि ॥ ८२॥ ‘ण यत्ति । न च स्थापनापि लिङ्गे 'तज्जातीये' साधुजातीये पार्श्वस्थादौ सदोषे च प्रवर्तते, स्थापनायाः सादृश्यरू-3 पत्वात् , तस्य च तद्भिन्नत्वघटितस्य व्यवहारतः साधुभिन्नत्वाभाववत्यप्रवृत्तेः, तद्गतभूयोधर्मवत्त्वभागस्य च सदोषतयैव विरोधात् , अत एव पार्श्वस्थादौ साधुरितिवचनं भावसाधुत्वबाधेनापकृष्टसाधुविषयतया पर्यवस्यद् रूपसत्यं न तु स्थापनासत्यम् , न चेदेवं तदा रूपसत्यस्थापनासत्ययोरभेदप्रसङ्ग इति । उपपादितं चैतत् सम्यग् भाषारहस्येऽस्माभिरिति तत एवाधिकमवसेयम् ॥ ८२ ॥ ननु कूटलिङ्गे मा भूत् स्थापना, परं तत् साधुगुणस्मरणद्वारा वन्दनीयमस्तु, इदमेव च तत्र | ताटस्थ्यं गीयते यत् तत् न स्वयं वन्द्यम् , तदुपस्थापिताः साधुगुणास्तु वन्द्या इत्याशङ्कायामाहसइमजायाए वि हु, सुहसंकप्पो पराकओ इत्तो। णिग्गुणतुल्लत्ताए, जं णायाए ण सो होइ ॥ ८३ ॥ 'सइत्ति । स्मृतिमर्यादयापि 'इतः' स्थापनाप्रवृत्तेः शुभसङ्कल्पो लिङ्गादिष्यमाणः पराकृतः, यत्स शुभसङ्कल्पः स्मर्य Main Education International For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy