SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृतियुतः तृतीयो ॥ १७६ ॥ ल्पस्यापि पुण्यफलस्याभाव एव प्राप्त इति, उच्यते तस्य तीर्थकर गुणाध्यारोपेण प्रवृत्तेर्नाभाव इति ॥ ७९ ॥ तथा चाहणियमा जिणेसु उगुणा, पडिमा उद्दिस्स जे मणे कुणइ । अगुणे य विआणतो, कं णमउ मणे गुणं काउं १८० 'णियम'त्ति | 'नियमात्' अवश्यंभावात् 'जिनेषु' तीर्थकरेष्वेव तुशब्दस्यावधारणार्थत्वात्, 'गुणाः' ज्ञानादयो न प्रतिमासु, प्रतिमा दृष्ट्वा तास्वध्यारोपद्वारेण यान् 'मनसि करोति' चेतसि स्थापयति पुनः पुनर्नमस्करोति, अत एवासौ तासु शुभः पुण्यफलो जिनगुणसङ्कल्पः, सावद्यकर्मरहितत्वात् ; न चायं तासु निरवद्यकर्माभावमात्राद्विपर्याससङ्कल्पः, सावद्यकमोपेतवस्तुविषयत्वात्तस्य; ततश्चोभयविकल एवाकारमात्रतुल्ये कतिपयगुणान्विते वाऽध्यारोपोऽपि युक्तः । 'अगुणे' इत्यादि, अगुणानेव तु शब्दस्यावधारणार्थत्वात्, अविद्यमानगुणानेव 'विजानन्' अवबुध्यन् पार्श्वस्थादीन् कं मनसि कृत्वा गुणं नमस्करोतु तान् ? इति ॥ १८० ॥ नन्वन्यसंविग्नसाधुसम्बन्धिनं गुणमध्यारोपमुखेन मनसि कृत्वा नमस्करोत्वित्यस्तु द्वितीयः पक्ष इत्यत आह एएण अण्णठवणा, पराकया होइ णिग्गुणत्तेणं । गुणसंकप्पाजोगा, गुणमित्ते जं तइच्छा य ॥ ८१ ॥ 'एएण'त्ति । ‘एतेन' निर्गुणविषये शुभसङ्कल्याभावव्यवस्थापनेनाऽन्यस्थापना पराकृता भवति, उद्देश्यगतगुणसाम्राज्ये सत्यपि तस्य निर्गुणत्वेन गुणसङ्कल्पायोगात् निर्गुणस्य विषयस्य विशेषदर्शिना तटस्थतयाऽपि प्रतिसन्धातुमशक्यत्वादित्यपि द्रष्टव्यम् । हेत्वन्तरमाह - 'च' पुनः 'यत्' यस्माद् 'गुणमात्रे' सादृश्यनिरूपकगुणलेशे सति 'तदिच्छा' अध्यारोपेच्छा Jain Education International For Private & Personal Use Only) गुरुतत्त्वविनिश्चयः ल्लासः ॥ १७६ ॥ nelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy