SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ गतं गुणं दोषं चापेक्षते, यत्पुनः प्रकारकृतं तत्राह-यत्पुनः 'उभयविरहितं' गुणदोषोभयरहिताकारमात्रवस्तुविषयं शुभत्वमहै शुभत्वं च तद् ‘अध्यारोपवललभ्यं' शुभाध्यारोपे शुभप्रकारमशुभाध्यारोपे चाशुभप्रकारमित्यर्थः॥७७॥ प्रकृतयोजनामाह एवं सुहसंकप्पो, पडिमाओ होउ जिणगुणारोवा।उदिस्स निग्गुणे पुण, कह सो जुत्तो जओ भणियं७८ PI एवं ति । एवं विषयगतगुणकृतशुभत्वाभावेऽपि प्रतिमातो जिनगुणारोपात्प्रकारशुभतया शुभसङ्कल्पो भवतु विषयग तोऽपि नाशुभ इति किञ्चिद्गुणसादृश्येन शुभ एवेति । लिङ्गे तु दोषजनिताशुभसङ्कल्पेन प्रतिबन्धाच्छुभसङ्कल्प उत्तिष्ठत एव न । अथ तटस्थतया कथञ्चित्पतिसंहिते लिङ्गे भवेदपि तथाप्ययं 'निर्गुणान्' पार्श्वस्थादीनुद्दिश्य भवन् कथं युक्तः, शुभतया वक्तुं प्रकारकृतशुद्धताया अप्यभावात् । यतो भणितमावश्यके ॥ ७८॥ जइ वि य पडिमासु जहा, मुणिगुणसंकप्पकारणं लिंगं। उभयमवि अस्थि लिंगे,ण य पडिमासूभयं अत्थि | 'जइ वि यत्ति । यद्यपि च प्रतिमासु यथा मुनीनां गुणाः-व्रतादयस्तेषु सङ्कल्पः-अध्यवसायस्तत्कारणं 'लिङ्गं द्रव्य-४ लिङ्गं तथापि प्रतिमाभिः सह वैधर्म्यमेव, यत उभयमप्यस्ति लिङ्गे सावद्यकर्म निरवद्यकर्म च । तत्र निरवद्यकर्मयुक्त एव यो मुनिगुणसङ्कल्पः स सम्यक्संकल्पः स एव च पुण्यफलः, यः पुनः सावद्यकर्मयुक्तेऽपि मुनिगुणसङ्कल्पः स विपर्याससकल्पः क्लेशफलश्चासौ विपर्यासरूपत्वादेव । न च प्रतिमासूभयमस्ति चेष्टारहितत्वात् , ततश्च तासु जिनगुणविषयस्य क्लेशफलस्य विपर्याससङ्ककल्पस्याभावः, सावद्यकर्मरहितत्वात् प्रतिमानाम् । आहेत्थं तर्हि निरवद्यकर्मरहितत्वात् सम्यक्सङ्क Main Education International For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy